SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३०८ एवमाइ उ जा भासा, एसकालंमि संकिया । संपावा, तंपि धीरो विवज्जए ।। " योगशास्त्रेऽपि ~~'मन्नह जिणाण आणं' स्वाध्यायः " ब्रूयाद्धियोपरोधाद्वा नासत्यं कालकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ।। न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ।। [दशवैकालिक-७/५-७] अल्पादपि मृषावादाद् रौरवादिषु संभवः । अन्यथा वदतां जैनीं वाचं त्वहह का गतिः ।। ज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः ।। " [योगशास्त्र-२/६०-६३] वाचाटैरपि परेषामाक्रोश-शाप - मर्मवचांसि न वक्तव्यानि । यदुक्तम् - “मुहुत्त - दुक्खा उ हवन्ति कंटया, अओमया ते वि तओ सुद्धरा । वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबन्धीणि महब्भयाणि ।। " [ द.वै.-९ / ३ / ७] पृष्टाववर्णवादोऽपि त्याज्य एव । अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीयं च भासं । ओहारणि अप्पियकारिणि च, भासं न भासेज्ज सया स पुज्जो ।। [ द. वै.-९/३/९] 8. अवर्णवादं च पराङ्मुखस्य; प्रत्यक्षतः प्रत्यनीकां च भाषाम् । अवधारिणीमप्रीतिकारिणीं च, भाषां न भाषेत सदा स पूज्यः ।। १. 'मर्मवचसां' हस्त० । 6. एवमाद्या तु या भाषा, एष्यत्काले शङ्किता । साम्प्रतातीतार्थयोः वा, तामपि धीरो विवर्जयेत् ।। 7. मुहूर्त्तदुःखास्तु भवन्ति कण्टकाः ; अयोमयास्तेऽपि तस्मात्सूद्धराः । वाचा दुरुक्तानि दुरुद्धराणि; वैरानुबन्धीनि महाभयानि ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy