SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ [भासासमिई [२९-भाषासमितिः] अथ भाषासमिति: - "सावज्जभासं न लविज्ज साहू, सुसावओ वावि विवेअजुत्तो । जम्हा जिणिंदेहि रहस्सभूआ, धम्मस्स भासासमिई पउत्ता ।।" । । समितिस्तु प्रवृत्तिरूपा - प्रवर्तनम् - "महुरं निउणं थोवं, कज्जावडियं अगब्वियमतुच्छं । पुब्बिं मइसंकलियं, भणंति जं धम्मसंजुत्तं ।।" [उपदेशमाला-७९] कार्यहीनबहु-बहुजल्पनेन न काऽपि पुण्याप्तिः किन्तु नवीनासुकृतोपार्जनमेव । अन्यथा चतुर्ज्ञानवद्भिस्तीर्थकृद्भिः कथं न जल्प्यते ? चेज्जल्पना विना न शक्यते तदाऽपि मिताक्षरैरेव स्वल्पं जल्पनीयम् । यदुक्तम् - "सो अत्थो वत्तव्वो जो भणइ अक्खरेहिं थेवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो ।।" [ ] न वचनमात्रेण काऽपि कार्यसिद्धिः स्यात् । यत: - "वचनं हि केवलं प्रतिपत्तिस्तु फलैर्विभाव्यते । वचनैरुपचारकोमलैः फलहीनैर्वद किं प्रयोजनम् ।।" । श्रीदशवैकालिके - “वितहं पि तहामुत्ति, जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ? ।। तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ।। 1. सावद्यभाषां न लपेत् साधुः, सुश्रावकोऽपि विवेकयुक्तः । यस्मात् जिनेन्द्रैः रहस्यभूता धर्मस्य भाषासमितिः प्रयुक्ता ।। 2. मधरं निपणं स्तोक कार्यापतितमगर्वितमतच्छम । पर्वं मतिसङ्कलितं भणन्ति यत धर्मसंयक्तम ।। 3. सोऽर्थो वक्तव्यो यो भण्यते अक्षरैः स्तोकैः । य: पुन: स्तोको बह्वक्षरैः, स भवति नि:सारः ।। 4. वितथमपि तथामूर्ति, यां गिरं भाषते नरः । तस्मात् स स्पृष्टः पापेन, किं पुनर्यो मृषा वदेत् ? ।। 5. तस्माद गमिष्यामो वक्ष्यामः, अमुकं वा नः भविष्यति । अहं वा करिष्यामि, एष वा करिष्यति ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy