________________
३०६
mmmmmmmmm...
'मन्नह जिणाण आणं' स्वाध्यायः
राजाख्यदेवि ! मुग्धासि, धर्मतत्त्वं न विन्दसि । समचित्तो महात्माय-मशनेऽनशनेऽपि च ।।३२।। अकृताकारितं शुद्ध-माहारं धर्महेतवे । अश्नतोऽपि मुनेनित्यमुपवास उदाहृतः।।३३।।
छुहवेअण वेआवच्च, संजम सुज्झाण पाण रक्खणट्ठा । इरिअं च विसोहेडं, भुञ्जइ न य रूवरसहेउं ।।३४ ।। अहव न जमिज्ज रोगे, मोहुदये सयणमाइउवस्सग्गे ।
पाणिदया-तवहेउं, अन्ते तणुमोअणत्थं च ।।३५ ।। मनो मूलं वचो स्कन्धः, क्रिया शाखादिविस्तरः । धर्मवृक्षस्य तन्मूले, दृढे सर्वं प्रजायते ।।३६ ।। स्वभर्तुर्देवरस्याऽपि, माहात्म्यं वीक्ष्यतादृशम् । अनुमोदनयैवात्मा, तया राज्या पवित्रितः ।।३७।। ।। इति संवरोपरि सूरनृप-सोममुनिसम्बन्धः ।।
[इइ संवर
3. क्षुधावेदना-वैयावृत्य-संयम-सुध्यान-प्राणरक्षणार्थम् । इर्यां च विशोधितु भुनक्ति न च रूपरसार्थम् ।। 4. अथवा न जेमति रोगे मोहोदये स्वजनाद्युपसर्गे । प्राणिदया-तपहेत्वर्थमन्ते तनुमोचनार्थं च ।।