________________
संवर mmmmmmmmmm
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ३०५
अर्वाक्तीरे नदीं देवीं, समाह्वानपुरस्सरम् । योजयित्वा करौ शुद्ध-मानसेदं वदेर्वचः ।।११।। हे देवि ! नदि ! भर्ता मे, देवरव्रतवासरात् । आरभ्य ब्रह्मचारी चेन्मार्गं देहीति मे द्रुतम् ।।१२।। तत् श्रुत्वा विस्मिता राज्ञी, दध्यौ किमिदमीदृशम् । असम्बद्धं नृपो ब्रूते, पञ्चमो लोकपालकः ।।१३।। भ्रातृव्रतदिनादूर्ध्व-मस्य यत्पुत्रसन्तति: । बभूव मयि तत्सर्वं, विदितं मे पतिव्रतम् ।।१४।। अथवा किं विकल्पे, निकटः प्रत्ययोऽधुना । अन्यञ्च निर्विकल्पाः स्युः, पतिवाक्ये पतिव्रताः ।।१५।।
यत: -
सतीपत्युः प्रभोः पत्ति-गुरो: शिष्यः पितुः सुतः ।आदेशेसंशयं कुर्वन्, खण्डयत्ययंनोव्रतम् ।।१६।। इति तुष्टा गता राज्ञी, सोपस्करपरिच्छदा । नदीतीरे मिलल्लोकः, सङ्कटीभूतभूतले ।।१७।। तत्राहूय नदी देवी, कृतार्चा शुद्धमानसा । सा भतृकथितां सत्य - श्रावणामकृत स्फुटम् ।।१८।। नदी च सहसा वाम - दक्षिणक्षिप्तवारिभिः । स्ताधीभूय ददौ पारं, गता राज्ञी परे तटे ।।१९।। प्रणम्य विधिना तत्र, धन्यंमन्या मुनिं ततः । लब्धाशीर्मुनिना पृष्टा, नद्युत्तारविधिं सती ।।२०।। सर्वमाख्याय वृत्तान्तं, सा पप्रच्छ मुनीश्वरम् । असम्भाव्या कथं भर्तु-र्घटते ब्रह्मचारिता ।।२१।। सोऽप्याह श्रूयतां भद्रे !, यदाऽहं जगृहे व्रतम् । तदारभ्य विरक्तात्मा, व्रताकाङ्क्षी भृशं नृपः ।।२२।। परं तादृग्न कोऽप्यासी-द्राज्यधूर्धरणक्षमः । तेनाऽसौ कुरुते राज्यं, व्यवहारेण नो धिया ।।२३।।
उक्तं च -
परपुंसि रता नारी, भर्तारमनुवर्त्तते ।। तथा तत्त्वरतो योगी, संसारमनुगच्छति ।।२४।।
[ ] तथैवं गृहवासेऽपि, पंकेऽब्जस्यैव तस्थुषः । निर्लेपमनसो राज्ञो, घटते ब्रह्मचारिता ।।२५।। मुनि नत्वा रता राज्ञी, वहन्ती परमां मुदम् । वनस्यैकतमे देशे, गत्वा वासितवत्यसौ ।।२६।। कारयित्वा रसवतीं, स्वपरिच्छदहेतवे । पारयित्वा मुनिं पूर्णा - भिग्रहा बुभुजे स्वयम् ।।२७।। आप्रष्टुंगतया देव्या, पुनः पृष्टो मुनिः कथम् । नद्युत्तार्यः मयेदानीं, मुनिराह प्रशान्तवाक् ।।२८ ।। नदी देवी त्वया भण्या, यद्यसौ मुनिराव्रतात् । उपोषितश्चरेन्नित्यं, तदा मार्ग प्रयच्छ मे ।।२९।। पुनर्विस्मयमापना, राज्ञी नद्यास्तटे गता । श्रावयित्वा मुनेर्वाक्यं, नदीं तीर्खा गृहं ययौ ।।३०।। राज्ञे निवेद्य तत्सर्वं, पप्रच्छ च कथं मुनिः । उपोषित: सोऽद्य स्वेन पारणं कारितो मया ।।३१।।