SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३०४ mmmmmmmm ....'मन्नह जिणाण आणं' स्वाध्यायः "आयावयंति गिम्हेसु, हेमंतेसु अवाउडा ।। वासासु पडिसंलीणा, संजया सुसमाहिया ।।" [दशवैकालिक-३/१२] अत्र शिष्यः [पृच्छति] - सर्वत्र सर्वेषां संवरश्चेत्फलसाधकस्तदा मुनीनां नवकल्पविहारोऽष्टौ [द्वादश-?] मासान् प्रोक्तः स कथं घटते ? विहारे संवरासम्भवात् । गुरुः [आह-] सत्यम्, उच्यते-विहारोऽपि साधूनां संवरमार्गेणैव युक्तियुक्त इति नं दोषः । श्राद्धानामपि प्रतिदिन-चतुर्दशनियमग्रहणेच्छापरिमाणादिप्रतिपत्या संवर: । अत्र सम्बन्धः - "गृहेऽपि वसतां नित्यमश्नतामपि श्रद्धया । मनःशुद्ध्या भवेद्धर्मस्तपसाऽपि न तां विना ।।" उक्तं च - "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धने विषयासङ्गि मुक्तेनिर्विषयं मनः ।।" [भगवद्गीता] मनमरणे इंदियमरणं, इंदियमरणे मरंति कम्माई । कम्ममरणेण मुक्खो, तम्हा मनमारणं कुज्जा ।।" [जैनसूक्तसन्दोह-१३०/६-७] तथाहि - ॥अथ सूरनृप-सोममुनिसम्बन्धः ।। पुरा सूरनृपः कुर्यावरूद्यानमागतम् । मुनिसोदरमाकर्ण्य तत्रागात्सपरिच्छदः ।।४।। मुनिं प्रणम्य भावेन, स्फुटरोमाञ्चभूषणः । निशम्य तन्मुखाद्धर्मं, गतः स्वभवनं नृपः ।।५।। पट्टराज्यपि सोत्कण्ठा, वन्दितं देवरं मुनिम् । आपृच्छय नृपतिं सायं, जग्राहेत्थमभिग्रहम् ।।६।। सोमाभिधो मुनि: प्रात-र्मया सपरिवारया । वन्दित्वा पारयित्वा च, भोक्तव्यमिति नान्यथा ।।७।। अत्रान्तराले नद्यस्ति, पुरस्योपवनस्य च । निशीथे सातिपूरेणा - गतागाधा वहत्यलम् ।।८।। तेनाक्षिप्तमना राज्ञी, प्रभाते निजवल्लभम् । पप्रच्छ कथमद्याऽसौ, पूर्यते मे मनोरथः ।।९।। उवाच नृपतिर्देवी !, मा कार्षीः खेदमिदृशम् । येनेदं सुकरं स्वस्था, गच्छ त्वं सपरिच्छदा ।।१०।। १. 'बन्धस्तु विषयासंगे' इति जैनसूक्तसंदोहे । २. 'मोक्षे निर्विषयं स्मृतः ।।' इति भगवद्गीतायाम् ।३. मनमरणिंदिय...' हस्त० । ४. 'तेनाश्चिलमना' हस्त० । 1. आतापयन्ति ग्रीष्मेषु, हेमन्तेष्वप्रावृताः । वर्षासु प्रतिसंलीनाः, संयता: सुसमाधिताः ।। 2. मनमरणे इन्द्रियमरणं, इन्द्रियमरणे मरन्ति कर्माणि । कर्ममरणेण मोक्षस्तस्मात् मनमारणं कुर्यात् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy