SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ संवर सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ।। यः कर्मपुद्गलादान-च्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ।। येन येन ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ।। क्षमया मृदुभावेन ऋजुत्वेनाऽप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ।। असंयमकृतोत्सेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ।। तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाऽविरतिं चापि साधयेत् ।। सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतार्तरौद्रे च संवरार्थं कृतोद्यमः ।। " ३०३ [ योगशास्त्र- ४ /७९-८५ एवं ज्ञात्वा यतिसुखार्थिभिः संवरो विधेय एव । यथा वा [ भगवतो महावीरस्य ] दशभिरपि श्राद्धैः विंशतिवर्षाणि यावत् श्रीजिनधर्म आराधितः । तन्मध्ये चतुर्दशवर्षानन्तरं षट्वर्षाणि यावत् सर्वगृहव्यापारपरिहारेण संवरकृतः । एकादशप्रतिमाराधनादिबहुदुष्करतपः क्रिया च कृता । सर्वेषां मासिकसंलेखनाऽनशनं जातम् । प्रान्ते चावधिज्ञानमुत्पन्न-मानन्दवर्जमन्येषां नवानां देवपरिक्षा बभूव । आयुः समाप्ते च ते दशाऽपि सौधर्मे कल्पे पृथक् पृथक् विमानेषु चतुः पल्यायुषो देवा अभूवन् । ततश्च्युत्वा च ते दशाऽपि महाविदेहक्षेत्रे महाराजानो भूत्वाऽवसरे दीक्षां गृहीत्वा शुक्लध्यानेन विमलकेवलज्ञानलक्ष्मीं प्राप्य सेत्स्यन्ति । साधूनां द्वादशसाधुप्रतिमाकरणं जिनकल्पप्रतिपत्तिः परिहारविशुद्धिकचारित्रप्रतिपत्तिश्च एवमपि संवर एव ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy