SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ [संवर [२८-संवरः] अथ संवरः । इन्द्रिय-नोइन्द्रियगोपन संवरः । एतान्यसंवृतानि जीवस्य दुःख-फलानि । यत: "वशास्पर्शसुखास्वाद-प्रसारितकर: करी । आलानबन्धनक्लेश-मासादयति तत्क्षणात् ।। पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीन: पतति निश्चितम् ।। निपतन् मत्तमातङ्ग-कपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ।। कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः । रभसेन पतन दीपे शलभो लभते मृतिम् ।। हरिणो हारिणिं गीति-माकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् ।। एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ।। [योगशास्त्र ४/२८-३३] अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्मयां जिगमिषुर्गामं स पङ्गुरिव हस्यते ।। मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ।। मनःकपिरयं विश्व-परिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छभिरात्मनः ।। [योगशास्त्र ४/३७-३९]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy