________________
विवेग
www२९९
'तवोगुणपहाणस्स, उज्जुमइ खंतिसंजमरयस्स । परीसहे जिणंतस्स, सुलहा सुगइ तारिसगस्स ।। पच्छा वि ते पयाया, खिप्पं गच्छन्ति अमरभवणाई ।
जेसिं पिओ तवो संजमो अ, खंती अ बंभचेरं च ।।२८।।" [दशवैकालिक - ४/२७-२८] राणकेन न्यगादि - 'सद्यो दीयतां हि तव्रतम्,' सूरिः 'ओमित्याह स्म ।' राणकेन डिंडुआणकीयश्राद्धाः समाकारिताः । हारोऽर्पितो, दिव्यः प्रासादः कार्यतामिति, तथाचरितं तैः, अद्यापि दृश्यते स यत्र राणकेन व्रतमात्तम् । नन्द्यामेव षट्विकृतिनियमम् । एकान्तरोपवासादि यावज्जीवम् । तस्य राणकस्य यशोभद्रस्य गीतार्थत्वात् सूरिपदं जातम् । श्रीयशोभद्रसूरिरिति नाम कृतम् । य: श्रीकुमारपालजीवस्य पूर्वभवे प्रतिबोधकः ।
यथा- मेदपाटपरिसरे पर्वतश्रेण्यां परमार: पल्लीशो जयताको राज्यमकरोत्परमन्यायप्रवृत्तिः । एकदा धनकनकसमृद्धा बलीवईश्रेणी तेन गृहीता । बलीवाधिपतिः नष्टः। जयताकेन सर्वं लुण्टितम् । बलीवधिपतिस्तु मालवदेशं गत्वा केनापि प्रौढराज्ञा समं मिलित्वा सेनां गृहीत्वा तस्यां पल्ल्यां वेष्टिमकृत । तां पल्लीमाकीटमारिः कृता । जयताको नष्टः । तद्भार्या च हस्ते चटिता, सद्यस्कपूर्ववैरेण तस्या उदरं विदार्य पुत्रगर्भ भुतले आस्फाल्यावधीद्वणिज्यारकः । पल्लीग्रामादि प्रज्वाल्य पुनर्मालवं गतः । राज्ञा रुष्टेन पृष्टम् - विग्रहः कृतः ? कथितं तेन यथाकृतम् । राज्ञोक्तम्- हत्याद्वयकात्त्वमदृष्टव्यमुखो मदन्तिकं त्यज । निष्कासितो देशात् लोकनिन्दोच्छलिता, तापसीभूयोग्राज्ञानतपसा मृत्वा वणिज्यारको जयसिंहदेवो जातः। जयताकं त्वटव्यां षंडेरगच्छेशा: श्रीयशोभद्रसूरयो मिलिताः प्रोचुः यत्तव सर्वं गतम्, पुनरन्यायान् कुतः करोषि ? शृणु !
“अन्यायोपार्जितं वित्तं, दशवर्षाणि तिष्ठति । प्राप्ते षोडशमे वर्षे, समूलं च विनश्यति ।।
[चाणक्यशतक - १५/६] तेनोक्तम् -
बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपम् ।। मानं मुञ्चति सेवतेऽन्त्यजजनं, दीनं वचो भाषते, कृत्याकृत्यविवेकमाश्रयति नो, नापेक्षते स्वर्गतिम् ।
५. 'चैकादशे' चाणक्यशतके । 7. तपोगुणप्रधानस्य ऋजुमतेः क्षान्तिसंयमरतस्य । परीषहान् जयतः सुलभा सुगतिस्तादृशस्य ।। 8. पश्चादपि ते प्रयाताः क्षिप्रं गच्छन्त्यमरभवनानि । येषां प्रियं तपः संयमश्च क्षान्तिश्च ब्रह्मचर्यं च ।।