________________
विवेग
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm २९७
भासासमिआ, एसणासमिआ, आयाणभण्डमत्त-निखेवणासमिआ, उच्चार-पासवण-खेल-जल्ल-सिंघाण-पारिट्ठावणासमिआ, मणगुत्ता, वयगुप्ता, कायगुत्ता, गुत्तिंदिया, गुत्तबंभयारी, अममा, अकिंचणा, छिण्णग्गंथा, छिण्णसोआ, निरुवलेवा, कंसपाई इव मुक्कतोआ, संखे इव निरंजणा, जीवे इव अप्पडिहयगई, जच्चकणगं पिव जायरूवा आदरिसफलग्गा इव पागडभावा, कुम्मो इव गुत्तिन्दिआ, पुक्खरपत्तं पिव निरुवलेवा, गगणमिव निरालम्बणा, अणिलो इव निरालया, चन्दो इव सोमलेसा, सूरो इव दित्ततेआ, सागरो इव गम्भीरा, विहग इव सव्वओ विप्पमुक्का, मंदरो इव अप्पकम्पा, सारयसलिलं इव विसुद्धहिअया, खग्गिविसाणं व एगजाया, भारण्डपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायथामा, सीहो इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुअहुआसणो इव तेअसा जलन्ता णस्थि णं तेसिणं भगवन्ताणं कत्थइ पडिबन्धो भवइ ।
[से य पडिबंधे चउव्विहे पण्णत्ते,] तं जहा - दव्वओ, खित्तओ, कालओ, भावओ । दव्वओ णं सच्चित्ताचित्तमीसिएसु दव्वेसु । खित्तओ-गामे वा, नगरे वा, रणणे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा । कालओ समए वा, आवलिआए वा, जाव [आणापाणुए वा थोवे वा क्षणे वा लवे वा मुहत्ते वा अहोरत्ते वा पक्खे वा मासे वा] अयणे वा, अन्नयरे वा, जाव दीहकालसंजोगे वा । भावओ-कोहे वा, माणे वा, मायाए वा, लोहे वा, भए वा, हासे वा, एवं तेसिं न भवइ । तेणं भगवन्ता वासावासवज्जं अट्ठगिम्हहेमन्तिआणि मासाणि - गामे एगराईआ, णगरे पञ्चराईआ, वासीचन्दणसमाणकप्पा, समलेढुकंचणा, समसुहदुक्खा, इहलोग-परलोग-अप्पडिबद्धा, संसारपारगामी, कम्मनिग्घायणट्ठाए अब्भुट्ठिआ विहरन्ति ।। श्रीओवाईआ उपांगे ।।
एवं तेषां सम्यग्गुणवर्णनश्रवणेन राणकस्य चित्तोल्लासो वन्दनं श्रद्धा च जाताः । रात्रौ तद्ध्यानमय: प्रातर्वन्दितुं गतः । वन्दित्वा यथोचितस्थानं विनयेनोपविष्टः । ततो भवाब्धितारिणी सर्वसौख्यपादपसारणी दुर्गतेर्वारणी श्रीसूरीशो देशनां व्यधात् ।
पारिष्ठापनासमिताः, मनोगुप्ताः, वचनगुप्ताः, कायगुप्ताः, गुप्तेन्द्रियाः, गुप्तब्रह्मचारयः, अममाः, अकिञ्चनाः, छिन्नग्रन्थाः, छिन्नशोकाः, निरुपलेपाः, कांस्यपात्रीव मुक्ततोयाः, शङ्ख इव निरञ्जनाः, जीव इवाप्रतिहतगतयः, जात्यकनकमिव जात्यरूपाः, आदर्शफलका इव प्रगटभावाः, कुर्म इव गुप्तेन्द्रियाः, पुष्पकरपत्रमिव निरुपलेपाः, गगनमिव निरालम्बा:, अनिल इव निरालयाश्चन्द्र इव सौम्यलेश्याः, सूर्य इव दिप्ततेजसः, सागरमिव गम्भीराः, विहगमिव सर्वतो विप्रमुक्ताः, मन्दर इवाप्रकम्पाः, शारदसलिलमिव विशुद्धहदया:, खड्गिविषाणमिव एकजाताः, भारण्डपक्षीवाप्रमत्ताः, कुञ्जर इव शोण्डीराः, वृषभ इव जातस्थामा:, सिंह इव दुर्द्धर्षाः, वसुन्धरा इव सर्वस्पर्शविसहाः, सुहुतहुताशन इव तेजसा ज्वलन्तः । नास्ति तेषां भगवतां कुत्रचित् प्रतिबन्धो भवति । [स प्रतिबन्धश्चतुर्विधः प्रज्ञप्तः] तद्यथा - द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यतः - सचित्ताचित्तमिश्रितेषु द्रव्येषु, क्षेत्रतः - ग्रामे वा नगरे वाऽरण्ये वा क्षेत्रे वा स्थले वा गृहे वाऽऽङ्गणे वा, कालत: - समये वा आवलिकायां वा यावत् [आणप्राणे वा स्तोके वा क्षणे वा लवे वा मुहूर्ते वाऽहोरात्र्यां वा पक्षे वा मासे वा] अयने वा अन्यतरस्मिन् वा यावत् दीर्धकालसंयोगे वा। भावत: - क्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा, एवं तेषां न भवति । ते भगवन्ता वर्षावासं वाष्टग्रीष्महेमन्तकानि मासानि ग्रामे एकरात्रिका:, नगरे पञ्चरात्रिका वासीचन्दनसमानकल्पा: समलेष्टुकञ्चना: समसुखदुःखा इहलोक-परलोकाप्रतिबद्धाः संसारपारगामिनः कर्मनिर्घातनार्थमभ्युपस्थिता विहरन्ति।