SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ [विवेग] [२७-विवेकः] अथ विवेग इति । स च द्विधा द्रव्यतो भावतश्च । द्रव्यतः स्वजनस्वर्णादित्यागः, श्रीजम्बूस्वामि-श्रीस्थूलभद्राभयकुमार-शालिभद्रादिभिरिव वज्रस्वामिनेव वा । यत: - "कोडीसएहिं धणसंचयस्स गुणसुभरियाए कन्नाए । न वि लुद्धो वयररिसी अलोभया एस साहूणं ।।" [उपदेशमाला-४७] भावतश्च - "मिच्छत्तं वेअतिगं हासाईछक्कगं च नायव्वं । कोहाईण चउक्कं चउदश अब्भंतरा गंथी ।।" [प्रवचनसारोद्धार-७२१] एतेषां त्यागः । अत्र सम्बन्धः - ।। अथ श्रीयशोभद्रसूरि-कुमारपालयोः पूर्वभवकथा ।। पूर्णतल्लगच्छे श्रीदत्तसूरिः प्राज्ञः षट्त्रिंशत्शतप्रमाणग्रामे वागडदेशे वटपद्रपुरं समस्ति। तत्र प्राप्तः तत्स्वामी यशोभद्रराणकः श्रीमान् । तत्सौधान्तिके सुश्रावकैरुपाश्रयः प्रदत्तः । तत्र स्थिताः, रात्रावुन्मुद्रचन्द्रातपायां राणकेनासन्नस्थितत्वान्मुनय उपाश्रये निषिण्णा दृष्टाः । ततः समीपस्थ-श्रावकामात्यपार्श्वे पृष्टम्- क एते ? अमात्यः प्रोचे - 'देव ! महामुनयोऽमी विषमतममहाव्रतधारिणः ।' यतः - तरिअव्वो अ समुद्रो, बाहाहिं इमो महल्लकल्लोलो । नीसायअवालुआए, चावेयव्वो सया कवलो ।।१।। 'चंकमिअव्वं निसिअग्ग-खग्गधाराहिं अप्पमत्तेणं । पायव्वा य सहेलं, हुअवहजालावली सययं ।।२।। [पवज्जाविहाणकुलक -१०,११] पुनरपि - "तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवन्तो इरिआसमिआ, 1. कोटिशतैः धनसञ्चयस्य गुणसुभृतायां कन्यायाम् । नापि लुब्धो वैरर्षिः अलोभतैषा साधूनाम् । 2. मिथ्यात्वं वेदत्रिकं हास्यादि-षटकं च ज्ञातव्यम् । कोधादिनां चतुष्कं चतुर्दश अभ्यन्तरा ग्रन्थी ।। 3. तरितव्यश्च समुद्रो बाहुभ्यामयं महाकल्लोलः । निःस्वादवालुकायाश्चर्वितव्यः सदा कवलः ।। 4. चङ्क्रमितव्यं निशितानखड्गधारायामप्रमत्तेन । पातव्या च सहेलां हुतवहज्वालावली सततम् ।। 5. तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्यान्तेवासिनो बहवोऽणगारा भगवन्तरिर्यासमिता:, भाषासमिता:, एषणासमिताः, आदानभाण्डमत्तनिक्षेपनासमिताः, उच्चारप्रस्रवणश्लेष्मजलशिकाण
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy