________________
उवसम -
mmmmmmmmmm २८९
क्रोधादयश्चतुर्गतिषु यथेष्टं प्राप्यन्ते । यदुक्तमर्थतः श्रीप्रज्ञापनायाम् - "चउसु वि गईसु सव्वे नवरं देवाण समहिओ लोहो । नेरइआणं कोहो माणो मणुआण अहिअअरो ।। माया तिरिआणाऽहिआ मेहुण-आहार-मुच्छ-भयसन्ना ।
सभवे कमेण अहिआ मणुस्स-तिरि-अमर-निरयाणं ।।" [पुष्पमाला-२८९, २९०] तथा श्रीभगवती-त्रयोदशशतके द्वितीयोद्देशवृत्तौ - ___"देवेषु क्रोधमानमायाकषायोदयवन्त: कादाचित्काः । लोभकषायोदयवन्तस्तु सार्वदिकाः । नैरयिकेषु क्रोधकषायोदयवन्तस्तु सार्वदिकाः, इतरोदयवन्तस्तु कादाचित्काः ।"
अतश्चतुर्गतिषु सुलभत्वेनोपशमादीनामत्रैव प्राधान्येन तदाद्याश्रयणेन क्रोधादयो निगृह्या एव । यदुक्तम् -
"उवसमेण हणे कोहं, माणं मद्दवया जिणे ।
मायं चज्जवभावेण, लोभं संतोसओ जिणे ।।" [दशवैकालिक-८/३९] तथा श्रीस्थानाङ्गे - ‘चत्तारि धम्मदारा पन्नत्ता, तं जहा - खंती मुत्ती अज्जवे मद्दवे ।'
___ [स्थानाङ्ग-४/४/३७२] क्रोधादयो जीवानामुदयप्राप्ताः सन्तो गुणान्नाशयन्ति । यदुक्तं श्रीस्थानाङ्गे -
३. 'तिरिअसुरनरयाणं' पुष्पमालायाम् । 3. चतसृष्वपि गतिषु सर्वे नवरं देवानां समधिको लोभः । नारकाणां क्रोधो मानो मनुष्याणामधिकतरः ।। 4. माया तिरश्चामधिका मैथुनाहारमु भयसंज्ञा । स्वभवे क्रमेणाधिका मनुष्य-तिरश्चामरनारकाणाम् ।। 5. उपशमेन हन्यात्क्रोधं मानं मार्दवेन जयेत् । मायां चार्जवभावेन लोभं सन्तोषतो जयेत् ।। 6. चत्वारि धर्मद्वाराणि प्रज्ञप्तानि, तानि यथा - क्षमा मुक्तिः आर्जवो मार्दवः ।