________________
।। अथ चतुर्थगाथाव्याख्याने प्रबोधदीपिकायां चतुर्थः प्रस्तावः ।। उवसम-विवेग-संवर, भासासमिई 'अ जीवकरुणा य । धम्मिअजणसंसग्गो, करणदमो चरणपरिणामो ।। [उपशम-विवेक-संवराः, भाषासमितिश्च जीवकरुणा च । धार्मिकजनसंसर्गः, करणदमश्चरणपरिणामः ।।
[उवसम]
[२६-उपशमः] अथ चतुर्थगाथा व्याख्या । तत्र उपशमः क्रोधनिग्रहः । यतः - "कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ पवड्डमाणा ।
चत्तारि एए कसिणा कसाया, सिंचन्ति मूलाइं पुणब्भवस्स ।।" [द.वै-८/४०] तथा क्रोधादयोऽनिगृहीता एवं जीवानां हानि कुर्वन्ति । यतः -
"कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो ।।" [दशवैकालिक-८/३८]
१. 'छज्जीवकरुणा य' मुद्रितसम्बोधप्रकरणे, प्रबोधटीकायां, K हस्त० ।। 1. क्रोधश्च मानश्चानिगृहीतौ माया च लोभश्च प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषाया: सिञ्चन्ति मूलानि पुनर्भवस्य ।। 2. क्रोधः प्रीतिं प्रणाशयति मानो विनयनाशनः । माया मित्राणि नाशयति लोभ: सर्वविनाशनः ।।