________________
२८६ mmmmmmmmmmm
.....'मन्नह जिणाण आणं' स्वाध्यायः
'अस्मद्देशे इयं रीतिः नास्ति, भवदेशे चेदियं रीतिः वर्त्तते तर्हि वयं निमन्त्रणीयाः, विलोक्यते मालवीयानां रीतिः । ततः सारङ्गनृपः समग्रगुर्जरजनयुतो निमन्त्रितोऽपूर्वविधिना भक्त्या च भोजितः साभ्रमतीनदीतीरे, भोजनान्तरं प्राभृतावसरे कर्पूरार्थं राजा करद्वययोजनं कारितः । तदवसरे ५४ [चतुर्पञ्चाशत्-] धडीसुवर्णदानं मार्गणानाम् [दत्तम्] । तेन च श्री शत्रुञ्जयगिरनारतीर्थयोरेकैव स्वर्णरूप्यमया ध्वजा दत्ता ३३ (त्रयत्रिंशत्) लक्षरूप्यटङ्कमया ।
श्रीआभूकस्य यात्रायां ७०० [सप्तशत-] देवालयाः, १५१० [एकसहस्रपञ्च-शतदशोत्तरजिन] बिम्बानि, ७४००० [चतुर्सप्ततिसहस्राणि] शकटानि, ५००० [पञ्चसहस्रा: अश्वाः, ४२००० [द्विचत्वारिंशत् सहस्राः] उष्ट्राः, २२९० [द्विसहस्रद्विशतनवत्युत्तराणि] सुखासनानि, ९९ [नवनवति-]श्रीकर्यः, ७ [सप्त-]प्रपाः, ४२ [द्विचत्वारिंशत्-] जलवाहिबलिवर्दाः, ३० [त्रिंशत्-] जलवाहिमहिषाः, १३ [त्रयोदश-]जलपट्टाः, १०० [शतानि] रन्धनकटाहकानि, १०० [शताः] कान्दविकाः, १०० [शताः] सूपकाराः, २२० [द्विशतोत्तरविंशत्यः] मालाकाराः, १०० [शताः] ताम्बूलिकाः, १३६ [एकशतषट्त्रिंशतानि] हट्टानि, १४ [चतुर्दशः] लोहकाराः, १६ [षोडश]सूत्रधाराः, १०५२ [एकशतद्विपञ्चा- शत्-] भारवाहकाः, १० [दश-]चर्मकराः, १० [दश-] अन्त्यजाः, ३६ [षट्त्रिंशत्-] सूरयः, १२ [द्वादश-]कोटिसुवर्णव्ययः ।
श्रीकुमारपालेन १८ [अष्टादश-]सहस्रसङ्घपतियुतेन श्रीशत्रुञ्जययात्रायां मालाऽवसरे प्रथमं टङ्ककानां चतुर्लक्षैर्माला मार्गणम्, तत उदयनमन्त्रिणा ८ [अष्ट-] लक्षा, एवं तावद्यावत्कोटी, तत: सा. हंसासुतझगडकेन सपादकोट्या गृहीतेन्द्रमाला । एवं रैवते, देवपत्तने श्रीचन्द्रप्रभचैत्ये च रत्नत्रयं मुक्तम् ।
श्रीविक्रमादित्ययात्रायां १४ [चतुर्दश-]मुकुटबद्धनृपाः, ७० [सप्तति-] लक्षाः श्राद्धकुटुम्बाः श्रीसिद्धसेनदिवाकराद्याः ५ [पञ्च-]सहस्रसूरयः, १६९ [एकशतैकोनसप्ततिः] सौवर्णदेवालयाः, एककोटिदशलक्षनवसहस्राः शकटाः, १८ [अष्टादश-] लक्षास्तुरङ्गाः, ७६ [षट्सप्तति-]शतानि हस्तिवराः, [एवं करभवृषभादीनां मानं ज्ञेयम् ] ।
१०. 'भवद्देशे ईयं रीतिर्न वर्त्तते । राज्ञोक्तमस्मद्देशे चेदियं रीतिर्नास्ति' हस्त० । ११. ५१० अश्वाः' हस्त० ।