________________
तित्थजत्ता
mmmmmmmmmmmmmmmmmmmmm २८५
"श्रीदेसलः सुकृतपेशलवित्तकोटीश्चञ्चच्चतुर्दश जगज्जनितावदातः ।
शत्रुञ्जयप्रमुखविश्रुतसप्ततीर्थयात्राश्चतुर्दश चकार महामहेन ।।" । । तथा “वर्षे खवेदवेदेन्दु १४४० मिते पञ्चमी ।
या सितासीत्तत्र मन्त्री निमित्तैः प्रास्थितोत्तमैः ।।" मण्डपदुर्गे साधुपेथडेन प्रथमयात्रायां एकादशलक्षानां रूप्यटङ्कानां व्ययश्चक्रे। सङ्घ सप्तलक्षा मनुष्याः, ५२ [द्विपञ्चाशत्-]देवालयाः ।
मण्डपदुर्गे शतत्रयमितेषु जैनप्रासादेषु सौवर्णकलशा: कारिताः । श्रीधर्मघोषसूरिणां पेथडसङ्घपतिना प्रवेशमहोत्सवे७२ [द्विसप्तति] सहस्रटङ्कानां व्ययश्चक्रे । भृगुकच्छे भाण्डागारमलीलिखत्। चतुरशीतिप्रासादाः कारिताः ।
श्रीगिरनारमहातीर्थे समकालमेव श्वेताम्बर-दिगम्बराणां सङ्घः प्राप्तः । परस्परं तीर्थवादो जातः । ततो वृद्धचतुर्जनैरुक्तं सङ्घपतिद्वयमध्ये य इन्द्रमालां परिधास्यति तस्य तीर्थमिदम् । ततः पेथडसङ्घपतिना सुवर्णस्यैव ५६ [षट्पञ्चाशद्-]धडीप्रमाणस्येन्द्रमाला परिधापनं चक्रे तीर्थं च स्वकीयं कृतम् ।
येन श्रीधर्मघोषसूरीणां पार्श्वे परिग्रहपरिमाणं “पूर्वं गृहीतं टङ्कद्वयशतप्रमाणाभिग्रहे सति पुरुषभाग्यं निःसीमत्वमिति श्रीगुरुवचनेन लक्षत्रयप्रमाणद्रव्याभिग्रहो गृहीतः । ततोऽप्यधिकद्रव्यप्राप्तौ देवगुरुनामाङ्कितं करिष्ये इति निर्णीतवान् ।
तस्य सुतो झांझणदेव: स्वपितुः कृतयात्रस्य प्रवेशमहःक्षणे प्रस्थानं श्रीशत्रुञ्जययात्रायै चकार । सङ्घपतिझांझणस्य १२ [द्वादश-]सङ्घपतियुतस्य राज्ञा सारङ्गदेवेन गजारूढस्य प्रवेशमहः कारितः । तस्य सङ्घमध्ये पञ्चलक्षमनुष्याणां सद्भावात्, राज्ञा सार-सारमनुष्याणां भोजननिमन्त्रणं दत्ते, झांझणदेवेन ज्ञापितं मम सङ्के सर्वः सार एव । राज्ञोक्तम - ४. 'मण्डपदयदुर्गे' हस्त० । ५. 'सङ्घपतिपेथडेन प्रथमयात्रायां १ लक्षा टङ्का रूप्यमयानां' प्रबन्धपञ्चशतौ । ६. ....लक्षं'
प्रबन्धपञ्चशतौ । ७. 'मनुष्याणां' हस्त० । ८. 'गृहीतं पूर्वं शतद्वयमितेऽभिग्रहं गृह्णतः सङ्घपतेर्गुरुभिरुक्तं न निर्वहिष्यति, पुरुषभाग्यस्य निस्सीमत्वात् । ततो लक्षत्रयं कृतम् ।' इति हस्त० । ९. 'सर्वः कोऽपि सारः' हस्त० ।