SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [तित्थजत्ता ] [२५-तीर्थयात्रा] अथ 'तित्थजत्ता इति तीर्थानां यात्रा तीर्थयात्रा । सा चतुर्विधश्रीसङ्घस्य विधेयतया ज्ञेया । 'तीर्थानि ' त्वष्टापद- सम्मेतशिखर- रैवताचल- श्रीशत्रुञ्जयाऽर्बुदाचल-कामिकतीर्थश्रीजीरापल्लीपार्श्व-श्रीस्थम्भनक - श्रीगउडी -श्रीफलवद्धि-लोडण-नवपल्लव-चिन्तामणिकलिकुण्डान्तरिक्ष- मगसी- कुर्कटेश्वर - श्रीश्यामलपार्श्वादितीर्थानि तेषां यात्रां ये भविनः स्वोपार्जितवित्तसफलीकरणाय तन्वन्ति ते ऐहिकामुष्मिकसुखादिफलभाजः 1 स्युः । यतः - 44 'आरम्भाणां निवृत्तिर्द्रविणसफलता सङ्घवात्सल्यमुच्चैः, नैर्मल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यं प्रभवो जिनवचनकृतिस्तीर्थकृत्कर्मकत्वम्, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ।। " [ सुक्तमुक्तावली - ६६ / १२] पुरापि श्रीतीर्थयात्रा श्रीभरतनृपादारभ्य बहूभिः सङ्घपतीभूय कृता । यतः " न प्राप्यते विना भाग्यं सङ्घाधिपपदं नृप ! । यथा तीर्थंकरपदं सङ्घाधिपपदं तथा ।। - ऐन्द्रपदं चक्रिपदं श्लाघ्यं श्लाघ्यतरं पुनः । सङ्घाधिपपदं ताभ्यां नवीनसुकृतार्जनात् ।। तीर्थकरनामगोत्रमर्जयत्यतिदुर्लभम् । लब्ध्वा दर्शनसंशुद्धिं सङ्घाधिपतिरुत्तमाम् ।।” [ 1 यथा उम्बरराजस्थापित श्री अर्बुदाचलतलहट्टिकालङ्कारश्रीउम्बरणीनगरतः सा० पारससुतः सा॰ देसलसाधुः श्रीशत्रुञ्जयादिसप्ततीर्थेषु चतुर्दशकोटिद्रव्यव्ययेन चतुर्दशयात्रां कृतवान् । उक्तं च १. ‘तित्थजत्तायमिति’ हस्त० । २. ...श्री अबुदोपत्यकास्थ...' हस्त० । ३. '७ तीर्थयात्रा चतुर्दशकृतवान्' हस्त० । -
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy