________________
२८० xommmmmmmmmmmmmmmmmmmmmmm
NNNNNNNNNN
xxxmammar- 'मन्नह जिणाण आणं' स्वाध्यायः
मदन-मधु-लोह-विष-लाक्षा-क्षार-तिलप्रमुखक्रयाणकक्रयविक्रये न प्रवर्त्तव्यम् । यतो भर्तव्यमुदरमेकं मर्तव्यं तु निश्चयेन । यतः -
"संझरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले ।।
जोव्वणे य नईवेगसन्निभे, पावजीव ! किमियं न बुज्झसे ।।"[उपदेशमाला-२०७] अत्र साधुजगडूज्ञातम् । यथा -
। अथ व्यवहारशुद्धौ जगडूकथा ।। भद्रेश्वरग्रामे जगडूसाधु: सामान्यः, समुद्रतीरे हट्टं मण्डयामास । एकदा जगडूपार्श्वे यानपात्रस्तेना: समागताः । तैरुक्तम्- 'अस्माकमेकं मदनभृतं यानपात्रं चटितमस्ति यदि भवतो रोचते तदा धनं दत्त्वा ग्राह्यम्।' ततो जगडूसाधुना तत्र गत्वा मूल्यं कृत्वा पूर्णं यानपात्रमेव गृहीत्वा तूर्णं शकटानि भृत्वा गृहे प्रेषितानि। शकटनायकास्तत्पन्या: पुरः प्रोचुः, 'यत्साधुना मदनं प्रेषितं तत् क्वोत्तार्यते ?' सा प्राह - 'अस्माकं गृहे मदनं पापसदनं नोत्तार्यते ।' इत्युक्त्वा तया नोत्तारयितुं दत्तम् । ततो मदनेष्टिका गृहाङ्गणनिम्बवृक्षस्याध उत्तारिता: । जगडू: पत्न्या: समं कलहं चक्रे, हक्किता वक्ति मदनव्यवसाये बहुपापं लगति, ततो मिथ: कलिं कृत्वा रुष्टौ, जगडूः प्रियां न जल्पयति, पत्नी प्रियं न जल्पयति, एवं मासत्रये जाते शीतर्तुः समागात् । जगडूपुत्रेण तापनार्थमङ्गीष्टके कृते तृणेषु क्षिप्यमाणेषु बालचापल्यादेका मदनेष्टिकामङ्गीष्टकामध्ये चिक्षेप । मदनं गलितम्, स्वर्णमयी [-ष्टिका दृष्टा पत्न्या । पत्नी अजल्पन्त्यपि धनलोभात् जगहू प्रति 'इतो विलोक्यताम्' ततो जगडूः संमुखमपि रुष्टो न विलोकयति, तत: पत्न्योक्तम्- आत्मनो] मदनेष्टिका स्वर्णेष्टिका जाता, ततः संमुखं यावद्विलोकयति तावत्स्वर्णेष्टिका दृष्टा । ततोऽपरासामिष्टिकानां परिक्षा कृता सर्वाः स्वर्णेष्टिका ज्ञाताः, तत: छन्नं स्वर्णेष्टिका गृहमध्ये आनीता मदनं पृथक्कृत्वा विक्रीतं पञ्चशतप्रमाणः । स्वर्णेष्टिका जाता ततः पत्नी पतिं प्रति प्राह - 'गुरव आकार्यन्ते, श्रीगुर्वादिष्टे स्थाने स्थाप्यन्ते धनं शाश्वतं स्यात् ।' ततो गुरव आकारिता: सुमहोत्सवपूर्वम्, गुरवो मदनव्यवसायं जगडूसाधुना कृतं श्रुत्वा जगडूसाधुगृहे साधून विहर्तुं न प्रेषयन्ति । ततो गुरवः प्रोचुरस्माभिश्चल्यते, ततो गुरवो देववन्दनार्थं क्षुल्लकयुता आगताः। गुरवो गृहे देवान् वन्दन्ते तदा क्षुल्लकः प्राह- 'हे भगवन् ! जगडूगृहे किं लङ्का समागता ? इतो वीक्ष्यताम्,' ततो गुरुभिः सन्मुखविलोकनेन स्वर्णेष्टिका दृष्ट्वा जगडूः पृष्टः का: [कुत इमा: ?] स्वर्णेष्टिका: ? जगडू: प्राहेष्टिकाग्रहणसम्बन्धं सर्वम् । ततो साधोरिष्टिकाग्रहणसम्बन्धं कथितं श्रुत्वा गुरवो हृष्टाः । पश्चाज्जगडूसाधुना विहारिता: स्वोपाश्रये आगताः । ततो जगडू: प्राहः- 'मया मदनभ्रान्त्या इष्टिका गृहीता जातास्तु सुवर्णमया:, उच्चैर्न जल्प्यते राजभयात् ।' टङ्कानां कोटिर्जाता जगडूगृहे ।
॥इति जगडूकथा ।। एवंविधदृष्टान्तान् श्रुत्वा सपापव्यापारं विमुच्य जिनोक्तमार्गेणाजीविकाविधौ यतनीयम् ।।
[इइ ववहारस्स य सुद्धी] 7. सन्ध्वारागजलबुबुदुपमे जीविते च जलबिन्दुचञ्चले । यौवने च नदीवेगसन्निभे पापजीव ! किमिदं न बुध्यसे।।