________________
ववहारस्य सुद्ध
तथा यदि न्यायोपार्जितवित्तेनाजीविका स्यात् तदा प्रायः सद्बुद्धिः सद्वासना सत्कार्यकरणतत्परता स्यादन्यथा त्वन्यथैव । आहारसदृशोद्गार इत्युक्तेः । अत्र सम्बन्धः
WWW
““देहो अ पुग्गलमओ, आहाराईहिं विरहिओ न भवे ।
तयभावे य न नाणं, नाणेण विणा कओ तित्थं ?"
।। अथ व्यवहारशुद्धौ द्विजकथा ।।
एकः कश्चिद्विप्रः शुल्कमनाः कणवृत्याजीविकां करोति । एकदा दुर्भिक्षे पतितेऽनिर्वहन् “मातात्मजं त्यजति याति पिताऽपि तापम्, न स्नेहमावहति हन्त सुहृज्जनोऽपि ।
भृत्ये गुणिन्यपि नृपा न कृपालवः स्युः, त्वय्यम्बुवाह ! जगतः प्रतिकूलभाजि ।।”
२७७
[पुष्माला-४२]
आगमेऽपि व्यवहारशुद्धिदुर्लभता दर्शिता । यतः
“आहारे खलु सुद्धी दुलहा समणाण समणधम्मंमि ।
ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिअं ।।"
मालवासन्ने क्वापि चरटैरन्यायिद्विजैश्च भृते ग्रामेऽगमत् । तत्रापि शुल्काजीविकां करोति । केनचिदधमेन सह मैत्री जाता । स स्वविश्वासेन कणमूटकं तन्निश्रया मुक्त्वा देशान्तरेऽगमत् । एकदा तस्मिन् द्विजे केनापि हेतुना ग्रामान्तरं गते साधानया तद्भार्यया ततो मुद्गमाणकं पुनः कालान्तरे प्राप्तियोगे तत्तत्र क्षेप्स्यते इति बुद्ध्या गृहीत्वा स्वयं व्यापारितम् । तत्क्षणं तत्र प्रक्षेपायोगेन बहुकालभवनेन [च] विस्मृतम् । पुनः सुभिक्षे जातेऽसौ स्वदेशेऽप्रापत् । तस्याः सुताजन्म जातम् । एकदा स्नातुकामे द्विजे तद्भार्या वाप्यां जलार्थं गच्छन्त्यभूत्परं कौतुकं प्रेक्षणार्थं वर्त्ममध्यस्थ- बहुजनसमुदायसंघट्टभयान्नागात् । पश्चादागमने पुत्र्या मातुरुक्तम्'त्वं केन हेतुना न गता ?' तया जनसम्मीलनमार्गसङ्कीर्णताभवनं हेतुरुक्तः । ततः पुत्री स्वयं घटं मौलौ कृत्वा लागता मातुरनुक्तैव । तया शम्बलीभाषणेन लोको मार्गं मोचितः । पित्रा तथाविसदृशस्वरूपं ज्ञात्वा पत्नी पृष्टा, किं हेतुकं नीचत्वम् ? तया विमृश्य संस्मार्य प्रोक्तम्- 'आधानावस्थायां तन्मूटकान् मुद्गमाणकं व्यापारितं मयेति ।
[अन्नायउंछकुलक-२]
२. 'प्रक्षेपायोगो न ' हस्त० । ३. 'पृष्ट्वा' हस्त० ।
4. देहश्च पुद्गलमयः, आहारादिभिर्विरहितो न भवति । तदभावे च न ज्ञानम्, ज्ञानेन विना कुतस्तीर्थम् ।। 5. आहारे खलु शुद्धिः दुर्लभा श्रमणानां श्रमणधर्मे । व्यवहारे पुनः शुद्धिः गृहस्थधर्मे दुष्करा भणितम् ।।