________________
[ववहारस्य सुद्धी] [२३-व्यवहारशुद्धिः]
ववहारस्स य सुद्धी-व्यवहारस्य शुद्धिर्व्यवहारशुद्धिस्तस्यां यतनीयम् । व्यवहारिणस्त एवोच्यन्ते ये व्यवहारेणान्यायमार्ग-कूट-कपट-परवञ्चनाऽदत्तग्रहण-कूटकर्षक-कार्षपणगृहीतापलपन-नव्य-जीर्णेकीकरणवर्जनतत्पराः । धनमपि न्यायोपार्जितमेव स्थिरं
स्यान्नान्यत् । यदुक्तम् -
66
“ अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति ।
प्राप्ते च षोडशे वर्षे समूलं च विनश्यति ।। " [ चाणक्यशतक १५ / ६] दृश्यतेऽपि च सम्प्रत्यपि येऽन्यायमार्गधनमेलकाञ्चौरा घाटीवाहा मार्गमूषकाः सर्वेऽपि लोकेभ्यः सुवर्ण-रत्न-मणि- मौक्तिक - पट्टसूत्र - रौप्य - बहुविधनाणकरूपद्रविणापहारेऽपि बुभुक्षाक्षामा एव । ये च श्रीजिनशासनमध्यवर्जितपञ्चदशकर्मादान-कूटमानमापसदृशवस्तुमिथः सम्मीलन - बहुमूल्याल्पमूल्यक्रयाणकैकीकरणव्यापारितचीवरादिनव्यमूल्यमार्गणादिप्रकारैर्व्यवसायं विदधते, तेऽप्यन्यायोपार्जका एव । तेषां श्राद्धसूत्रे प्रतिक्रमणमुक्तम् -
1
" तइए अणुव्वयम्मी, थूलग - परदव्वहरण-विरईओ । आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं । । १ । । तेनाहडप्पओगे, तप्पडिरूवे विरुद्धगमणे अ ।
कूडतुलकूडमाणे, पडिक्कमे देसियं सव्वं ।।२।। इंगालीवणसाडीभाडीफोडी सुवज्ज कम्मं ।
वाणिज्जं चेव दंत - लक्ख-रस-केस-विस-विसयं ।। " [श्राद्धप्र.- १३, १४, २२]
१. 'चैकादशे' चाणक्यशतके ।
1. तृतीये अणुव्रते स्थूलक-परद्रव्यहरणविरतितः । आचरितमप्रशस्ते, अत्र प्रमादप्रसङ्गेन ।।
2. स्तेनाहृतप्रयोगे, तत्प्रतिरूपे विरुद्धगमने च । कूटतूला - कूटमाने, प्रतिक्रमामि देवसिकं सर्वम् ।।
3. आङ्गारी - वन - शकटी - भाटी-स्फोटं कर्म सुवर्जयेत् । वाणिज्यं चैव दन्त - लाक्षा-रस- केश- विष-विषयम् ।।