________________
साहम्मिआण वच्छल्लं
२७५
पुष्पादि जैनायतने याति, न किमपि बौद्धायतनेष्वायात्य 'तो नृपेण तथाकृते श्राद्धा दानशौण्डा अपि पुष्पादि न लभन्ते । अथ पर्युषणावसरे जिनार्चाचिकीर्षवः पुष्पाद्यप्राप्त्या विषादाद्वाष्पार्द्रनेत्राः वज्रं विज्ञपयामासुः - 'भगवन् ! पर्युषणावसरे पुष्पाणि न लभन्ते किं कुर्मो वयम् ? ' वज्रस्तीर्थप्रभावनाचिकीर्षुः श्रावकाणां धीरा भवतेत्युक्त्वा नभस्युत्पत्य माहेश्वरीं पुर्यां हुताशनयक्षोपवने गतस्तत्र योऽऽरामिक: स वज्रपितु: मित्रम्, स वज्रं दृष्ट्वा मुदितः प्राह - . 'हे स्नातृज ! तवातिथेरद्य किमातिथ्यं कुर्वे ?' स ऊचे - 'पुष्पैर्नः कार्यम् ।' आरामिक ऊचे - ' स्युरत्र विंशतिलक्षाः पुष्पाणाम् ।' 'तावत्पुष्पाणि सज्जीकुरु, यावत्कार्यान्तरं कृत्वा नागच्छामि' इत्युक्त्वा वज्रो पृषदश्व इवोत्पत्य विहायसा क्षुद्रहिमवद्भिरिं ययौ । पाणिपद्मस्थिता पद्म श्रीदेवी अर्पयत् । तं नीत्वा पुनर्हुताशनगृहमागतः । विकुर्व्य विमानं तन्मध्ये श्रीदत्तपंकजपार्श्वतो विंशतिलक्षपुष्पाण्यस्थापयत् । स्मृत्यागतजृम्भिकामरावृतो बौद्धपुरीं प्रति चलितस्तं वीक्ष्य नभस्यायान्तं बौद्धा जल्पन्ति - किं दृष्टो बौद्धशासनानुभावो यद्यात्रायां सुरा अप्यागच्छन्ति । तानिति जल्पतो बौद्धायतनं च मुक्त्वा वज्रो जिनायतनं ययौ । तत्र देवैः, स कोऽपि महिमा कृतः, यो हि भूमिस्पृशां गोचरेऽपि न । तद्वीक्ष्य नृपः पुरीजनश्चार्हद्भक्तो जातः । विहरनन्यदा दक्षिणापथं । तत्रैकदा वज्रेण श्लेष्मणि संजाते सुंठि: भोजनानन्तरं भोक्ष्ये इति ज्ञात्वा स्थापिता, विस्मृता, सायमावश्यकसमये मुखवस्त्रिकया वपुः प्रतिलेखयतः पतितां तां दृष्ट्वा व्यचिन्तयच्चाऽसौ धिक् प्रमादः । कथं प्रमत्तस्य संयमो ऽतोऽनशनमेव श्रेयरितश्च वार्षिको दुष्कालो जज्ञे । वज्रस्वामिना वज्रसेनशिष्यो यदा त्वं स्थाल्यां लक्षपक्वौदनं पश्यसि तदा सुभक्ष्यं भविष्यति इत्यनुशिष्यान्यत्र विहर्तुं प्रेषितः ।
अन्ये वज्रशिष्या भृशं धात्र्यां भ्रमन्तोऽपि भिक्षां न लभन्ते । ततो वज्रेण विद्यापिण्डो आनीय दत्तः । तैरुक्तम्- 'भगवन् ! कोऽयं पिण्डो यतीनां कल्पते न वा ?' वज्रः प्रोचे - 'अकल्प्योऽयं विद्यापिण्डः, ' साधुभिरुक्तम्- 'विद्यापिण्डं न गृह्णामः किन्त्वनशनं गृहीष्यामो ।' वज्रस्वामी सर्वसाधुयुतोऽनशनग्रहणार्थं कञ्च क्षुल्लकं विप्रतार्य मुक्त्वा गिरिमारोह । स गुरुणा वारितोऽपि नगाधोभूमौ कृतानशनो मध्याह्ने मृतो सुरोऽभूत् । तद्देहार्द्धार्थं यातो देवान् दृष्ट्वा साधवो वज्रमपृच्छन् । क्व यान्तीमे देवाः, स श्रुतेन ज्ञात्वोचेक्षुल्लको साधयत् कार्यम् । तद्देहार्चार्थं यान्तीत्याकर्ण्य यतयो देहत्यागे विशेषत उद्यताः । तन्नगाधिष्ठायिका मिथ्यादृग्देवता साधून्पारणकदिने ऊचे-वोऽद्य पारणकं तन्मद्दत्तं मोदकादि गृह्णीध्वम् । ततो वज्रोऽप्रीत्यवग्रहं ज्ञात्वाऽन्यगिरिं ययौ । तत्रत्यदेवतानुज्ञया कृतानशनो वज्रः साधुयुतः स्वर्गमगात् । तदा वज्रेण सह दशमं पूर्वं तुर्यं संहननं च व्युच्छिन्नम् । वज्रं दिवं गतं ज्ञात्वा वज्री तत्रागत्य रथारूढो तं नगं प्रदक्षिणीचक्रे । स गोऽद्यापि रथावर्त इति ख्यातः । अथ स वज्रसेनो भ्रमत्सोपारपत्तनं ययौ । तत्र जिनदत्तश्रावक ईश्वरीभार्या तस्याश्च त्वारः सुताः । नागेन्द्र- चंद्र - निवृत्ति - विद्याधराख्याः । ईश्वरी धान्याभावे कथं जीवितव्यमिति विचिन्त्य पतिपुत्रयुता मरणार्थं लक्षमूल्येनान्नपाकं कृत्वा यावद्विषं क्षिपति तावद्वज्रस्वाम्युक्तेन निमित्तेन वज्रसेनस्तां वारयामास, पश्चाज्जाते सुभिक्षे प्रवहणागतधान्यैः जिनदत्तेश्वरीप्रमुखाः प्रव्रजिताः । ते सुताश्चत्वारोप्याचार्या अभूवन् । तन्नामोपलक्षिता नागेन्द्राद्याश्चत्वारोऽपि शाखाः पृथक् पृथगभूवन् । ।। इति साधर्मिकवात्सल्ये वज्रस्वामिकथा ।। [इइ साहम्मिआण वच्छल्लं]