________________
२७४ mmmmmmmm
'मन्नह जिणाण आणं' स्वाध्यायः
वीक्ष्य मुनयः पूर्वपठितानिस्तुषान्नप्यालापकान् संवादहेतोरपृच्छन् यावद्भूतं, गुरुबहुवाचनाभिरधीतम् तावद्वज्रादेकवाचनयाधीयन् । यदि गुरुर्विलम्बेत तदास्मश्रुतस्कन्धो वज्रान्तिके तूर्णं समाप्यते इति चिन्तयन्ति। अथागात् गुरुः पृष्टाश्च साधवो वाचना निर्वाहन्ते ? यथास्थितमुक्त्वा गुरुं नत्वा व्यजिज्ञपन् - 'भगवन् ! वाचनाचार्यो वज्र एव सदाऽस्तु नः ।' गुरुः प्राह - 'न त्वऽस्य वाचनाचार्यत्वं युज्यतेऽधुना यदनेन कर्णश्रुत्याऽधीतं न गुरोर्मुखात् । तत: गुरुर्वजं विधायोत्सारकल्पं सूत्रार्थं ग्राहितवान् । सिंहगिरिर्वजं प्रति प्राहन ह्यलम्भूष्णवो सर्वे, अहमत्र कडसमो । त्वं भद्रगुप्तगुरोर्मुखात् अधीत्य दशपूर्वाणि शीघ्रमेहि मदाज्ञया । _ सिंहगिरिविहरन् दशपुरं ययौ, वज्रमुज्जयिन्यां दशपूर्वधरभद्रगुप्ताचार्यसमीपे पूर्वश्रुतग्रहणायाप्रेक्षीत्। स गतो निशि बहिरस्थात् तनिशि भद्रगुप्त: स्वप्नमैक्षीत् । यत्केनाप्यागन्तुकेनास्मत्पतद्ग्रहः पयःपूर्णः पीतः । आचार्येण स्वशिष्येभ्यरुक्तमद्य कश्चित्प्राघूर्णक आयास्यति । स मत्तः सर्वं श्रुतमध्येष्यति । व्रज्रो निशान्ते भद्रगुप्तपार्श्व गतः । तैः प्रमोदादालिंग्यागमनकार्यं पृष्टः । प्राह-पूर्वाणि दशाध्येतुम् । तैरसौ पूर्वश्रुतमध्यापयितुमारब्धः। स प्रज्ञाप्रकर्षतो दशाऽपि पूर्वाण्यचिरेणाधीत्यतदनुज्ञार्थं भद्रगुप्तमापृच्छ्य तदादेशाद् दशपुरे सिंहगिरिपार्वं गतः । यतः श्रुतं यत्रोद्दिश्यते तत्रैवानुज्ञाप्यते, ततः सिंहगिरिणा तस्य पूर्वानुज्ञां कृत्वा जृम्भकदेवकृतमहिम्ना वाचनाचार्यपदवीं गणं च दत्त्वा स्वयं कृतानशनः स्वर्गं ययौ। ___वज्रस्वामी पञ्चशतसाधुयुतो विहरन् पाटलीपुत्रं गतः । तत्र धनश्रेष्ठी, तत्सुता रुक्मिणी, सा स्वगृहासनस्थितसाध्वीभ्यो वज्रसौभाग्यादिगुणान् श्रुत्वेति कृतप्रतिज्ञा पुरास्ति । यथा-'वज्रं विनाऽन्यं पतिं न करिष्ये, चेत्संयती नेच्छिष्यति तदाहमपि प्रव्रजिष्यामि,' पुनः साध्वीभ्यो तत्रागतं वज्रं श्रुत्वा तदर्शनकरग्रहणोत्सुका तातमुवाच । पितः ! चिरात्तद्गुणानुरक्तां मामद्योऽऽगतेन वज्रेणोद्वाहय । ततः श्रेष्ठी मिथ्यादृगत्वात् साधुस्वरूपमजानन तत्प्रेरितो तां विवाहार्थं सर्वालङ्कारभूषितां द्रव्यकोटियुतां नीत्वा तस्य पार्श्व गतः । तदा वैक्रिय- लब्ध्या संक्षिप्तरूपेण धर्मदेशनां कुर्वन्तं वीक्ष्य तद्पसौभाग्यरञ्जितो पौरजनो परस्परं भणति - 'यद्यस्य भगवतो शेषगुणानुरूपं रूपं स्यात्तत्सुवर्णे सौरभ्यम्, वज्रो तेषां मनोगतभावं ज्ञात्वा वैक्रियलब्ध्या स्वं स्वाभाविकरूपं सुवर्णाम्बुजं च विधाय तत्रस्थो देशनां चक्रे । तद्रूपं दृष्ट्वा सर्व: पौरजनो शिरांस्यधूनयत् । वज्रेण मां प्रति कस्या अपि स्त्रिय: स्वान्तं न क्षुभत्विति विचिन्त्य पुरप्रवेशे सामान्यरूपं तमभूत् । देशनान्ते श्रेष्ठी वज्रं प्राह - 'स्वामिन । त्वदनरक्तामिमां कन्यामद्वह, करमोचने त्वद्धनं दास्यामि ।' गरुः प्राह - 'कृतं मे धनकन्याभ्याम्, चेदेषा मय्यनुरक्ता ततो लात्वेषापि दीक्षाम् ।' रुक्मिणी वज्रान्तिके प्रव्रजिता । ___ अन्यदा पदानुसारी वज्रो महापरिज्ञातो नभोगविद्यामुद्दधे भणति चानया विद्यया मे मानुषोत्तरं गन्तुं शक्तिरस्ति, पुनर्न मयेमा विद्या कस्याऽपि दातव्या, यतोऽतः परं जीवा अल्पसत्त्वा भविष्यन्ति । विहरन्नन्यदा भगवान् पूर्वदिग्देशादुत्तरदेशं ययौ। तत्र दुष्कालः पतित: । मार्गा अपि व्युच्छिन्नाः । कोऽपि कुत्रापि गमनागमने कर्तुं न क्षमति । ततः दुःस्थितो संघो व्यजिज्ञपत् गुरुम्- 'भगवन्नस्मान्नतो दुःखात्कथमपि तारय ।' वज्रेण पटः कृतस्तमारुह्य संघयुतो वज्रो नभस्युत्पतितस्तावत्पुरा वारिकृते गतो शय्यातर आगतो वज्रं विज्ञपयामास - 'भगवन् ! मांशय्यातरं मुक्त्वा कथं यासि ? ततो वज्रो कृपानिधिः पटाञ्चलेन तं नीत्वा संघयुतो पूषापुरी प्राप्तस्तत्रत्यलोको नृपश्च बौद्धभक्तो श्रावकैर्धर्मस्पर्धया बौद्धा जिता: । जिनार्चायां सोत्कण्ठाः श्रावका बहुमूल्येनाऽपि पुष्पादि गृह्णन्ति । बौद्धास्तु मूल्यदानेऽक्षमा: पुष्पाद्यनाप्नुतो नृपं व्यजिज्ञपयत् । ‘देव ! सर्वं