________________
साहम्मिआण वच्छल्लं ..
mmmmmmmmmmmmmm २७३
कोऽपि तप:प्रभाव: किंत्वेषो पादलेपेन मुग्धजनं वञ्चति । ततोऽसौ श्रावकैः कपटेन भोजनाय निमन्त्रितः । स एकः पाटकगृहे आगतः । तैः कपटभक्त्या पादपादुके पयसा प्रक्षाल्य भोजितः। तापसो विगोपनाभीरुरन्नस्वादं नाज्ञासीत् । भुक्त्वा पौरपरिवृतोऽन्यदिनवद्वेणातीरं गत्वा पादलेपाभावेऽपि साहसात्तदंतःप्रतिष्ठो ब्रुडति स्म । तावदद्दत्ततालं लोककलकलं श्रुत्वार्यसमितगुरुस्तत्रागतो बेणामध्ये चूर्णं क्षिप्त्वोवाच - 'हे बेणे ! मार्ग देहि, यास्याम्यहं परतटे, ततस्तया दत्तमार्गेणाचार्यो द्वितीयतटं प्राप्तः तं दृष्ट्वा तापसाः चमत्कृताः प्रव्रजिता: ते ब्रह्मद्वीपवास्तव्याः । तदन्वये ब्रह्मद्विपकनामानः श्रमणा जाताः। ___ अथ वज्रस्तत्रस्थ एव त्रिहायणो जातः । धनगिर्यादयस्तत्रागताः, सुनन्दा सुतं ययाचे, ते न ददुः । ततो नृपकुले व्यवहारः । ततो नृपोत्संगे वज्रोऽस्थापि, एकत: संघगुरुः, एकत: सुनन्दा, पंथानं स्थिता: पौरजनाः कौतुकं विलोकयन्ति । राज्ञोक्तम्-'येनाकारित आयाति तदीयोऽयं बालकः,' प्रथमं सुनन्दा बालक्रीडनकैः प्रलोभयन्ती पुनराह्वयति । वज्रः ‘संघापमानेनानन्तसंसारी भविष्यामी 'तिध्यात्वा मातृसंमुखं मनागपि न विलोकयति । ततो नृपप्रेरितो धनगिरिः रजोहरणमुत्क्षिप्योवाच - 'वत्स ! चे व्रतमिच्छसि तदमुंगृहाण,' तदा वज्रः शीघ्रमागत्य रजोहरणमाददे । ततो जीयात् श्रीवीरशासनमिति जनप्रघोषोऽभूत् । ततो वैराग्यात्सुनन्दा वज्रेण सह प्रव्रजिता । वज्रो गुरुभि: गृहीतव्रतोऽपि लघुत्वात्पुन: संयत्युपाश्रय एव मुक्तः । स साध्वीभ्यः श्रृण्वन्नेकादशान्यप्यऽङ्गान्यऽध्यैष्ट, महर्षिभि: असौ संयत्युपाश्रयादष्टवार्षिकः स्ववसतिं नीतः ।
अन्यदा सिंहगिरिः वज्रयुक् उज्जयिन्यां ययौ । तत्रावच्छिन्नधारंवर्षाववर्ष, तदा वज्रपूर्वपरिचिता जृम्भकामराः वज्रसत्वपरिक्षार्थं वणिग्रूपेण विकुर्वितसार्थाः स्थितप्राये घने भिक्षार्थं गुरुं निमन्त्रयति । गुरुभिः क्षुल्लकः प्रेषितः । वज्रो विहर्तुं निर्गत: । स सूक्ष्मवृष्टिं वीक्ष्य शीघ्रं प्रतिनिवृत्तः । सर्वथा वृष्टिं रुद्ध्वा देवैराहूय यत्पुन: इर्यासमितो तदावासं गतो भिक्षाग्रहणसमये द्रव्याधुपयोगं ददौ । द्रव्यतः कूष्माण्डपाकः, क्षेत्रत उज्जयनी, कालतो वर्षा, भावतोऽनिमेषाक्षा एतेऽतो नूनं देवपिण्डोऽयं यतीनां न कल्पते इति विचिन्त्यागृहीततद्भिक्षा स्वमाश्रयं ययौ । तत्सत्वतुष्टैः सुरैस्तस्मै वैक्रियलब्धिर्दत्ता । अथाऽन्यदा वज्रो ज्येष्ठमासे बहि विगतो तैरेव वणिजरूपेण घृतपूरैर्निमन्त्रयत तेन पूर्ववदुपयोगेन भिक्षा न गृहीता । तत: प्रमोदाद्देवैराकाशगामिनी विद्या दत्ता । स एकादशाङ्गधरो पूर्वगतमपि यद्यच्छृणोति तत्तल्लीलया गृह्णाति । गुरुभिः पठेत्युक्तो किञ्चिदस्फुटसुञ्चरन्पुनरपरान्पठतो शृणोति । __ अन्यदा साधवो भिक्षार्थं गताः । गुरवो बहिर्भुवि गताः, वज्रस्तु वसतावेकाक्येवास्ति। वेष्टिका: साधुमण्डल्यां विन्यस्य स्वयं मध्ये निषद्यैकादशाङ्गानां पूर्वगतस्य च वाचनां दातुमारेभे, इतीव गुरव उपाश्रयमागताः । सूरयो गद्गद्स्वरं निशम्येति विचिन्तयन् किमाप्तभिक्षाः साधव आगताः ? क्षणाद्वज्रस्य वाचनास्वरं श्रुत्वा चिन्तयामासुः किमयं गर्भस्थोऽध्यैष्ट मास्यास्मद् श्रवणात्छंका स्यात्ततोऽपसृत्योच्चैनैषेधिकीं चक्रुः । तामाकर्ण्य वज्रो स्वस्थानं वेष्टिकाकृतिं मुक्त्वा समेत्य गुरुपादावमार्जयत् । ततो गुरुभिः वज्रविक्रमज्ञापनाय साधून प्रत्युक्तम्-वयं श्वोऽमुकं ग्रामं गतास्मस्तत्र द्वित्राऽहं स्थिति विनी । ततः प्रारब्धयोगा मुनयोऽब्रुवन् कोऽस्मद्वाचनाप्रदः ? गुरु: प्राह - 'वज्रो दास्यति ।' तैर्विनीतविनयैस्तथैवाभ्युपगतम् । प्रातः गुरौ गतेऽनुयोगसामग्र्यं कृत्वा वज्रो गुरुवदासनस्थो वाचनामदात् । मन्दमतयोऽपि वज्रोऽमोघगिरादुष्टमतयोऽभूवन्, तदाश्चर्य