SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २७२~~ मन्नह जिणाण आणं' स्वाध्यायः अ श्रीवस्वामिसम्बन्धः । तुम्बवनसन्निवेशे धनगिरिः श्राद्धः, स तारुण्येऽपि प्रियां न गच्छति । पिता तदर्थं यत्र यत्र कनीं याचति, तत्र तत्र प्रव्रजिष्यामीत्युक्त्वा निषेधयति । धनपालमहेभ्यसुतां सुनन्दां पितृवशादसौ उपायंसू, सुनन्दाभ्रातार्यसमितः सिंहगिरिगुरुपार्श्वे पुरा गृहीतव्रतोऽस्ति । अन्यदा धनगिरिर्ब्रह्मप्रियो ऽपि प्रियां भेजे । इतश्चाऽष्टापदे यो भूमिगोचरे स्वशक्त्यारुह्य देवान् वन्दते स चरमशरीरी स्यादिति - श्रीवीरवाक्यं श्रुत्वा गौतमः सूर्यकिरणानालम्ब्य तत्र गत्वा देवान् ववन्दे । तदा धनदामरः श्रीवीरपार्श्वे - 6 “कालीपव्वंगसंकासे, किसे धमणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ।। " [ उत्तराध्ययन- २ / ३] इत्यादि श्रुतश्रवणस्वरूपे प्रौढं सुकुमालं दृष्ट्वा जातसंशयो गौतमेन पुण्डरीक कण्डरीकाध्ययनाभ्यां प्रतिबोधितोऽस्ति पुरा, स तदा च्युत्वा सुनन्दाकुक्षावुत्पन्नः । ज्ञात्वा धनगिरिः सगर्भां तां गर्भोऽयं ते द्वितीयको भावीत्युक्त्वा प्रव्रजितः सिंहगिरिं सकाशे । सुनन्दा सुतं प्रसूता, तत्प्रतिजागरितुमागतः सखीजनोऽवदत्‘यद्यस्यार्भकस्य पिता तदा व्रतं न लास्यत तदा अद्याऽतुच्छमुत्सवमकारयिष्यत् । सो बालो बलधीः तच्छ्रुतेनोहापोहेन जातिस्मृतिमायातः । कथं व्रताय माता मे मोक्ष्यति ? बालस्य रुदनं बलमिति विचिन्त्य दिवानिशं रुदन्नेवाऽस्ते । तस्यैवमेवाविश्रान्तं रुदतः षण्मासा अतिक्रान्ताः, ततः सुनन्दा तद्रुदितात् भग्ना, चिन्तयति - यद्यऽस्याऽत्र पिताऽऽगच्छति तन्नूनं तस्मायर्पयाम्यमुम् । - इतश्च सिंहगिरिर्धनगिर्यार्यसमितयुतस्तत्राऽगात् । धनगिर्यार्यसमितौ गुरुं पप्रच्छतुः - 'भगवन्नावां भिक्षाचर्यार्थं नगरमध्ये व्रजाव: ? ' गुरुः श्रुतोपयोगेन भाविव्यतिकरं ज्ञात्वोचे - 'गच्छताम्, परं यत्किञ्चित् सचित्तमचित्तं वा लभेथाः तदानेतव्यम्, तावित्थमित्युक्त्वा गतौ । क्रमेण विहरन्तौ सुनन्दागृहं गतौ । सा सुतमादायोत्थिता भणति - अहमुद्वेजिताऽश्रान्तं रुदताऽनेन सूनुना, कृतं मे तेन त्वं गृहाणाङ्गजं निजम् स प्राह - 'त्वं तु पश्चात् पश्चात्तापं करिष्यसि,' सा प्राह - 'न करिष्ये ।' ततो धनगिरिणाऽऽसन्नाः सख्यः साक्षिकाः कृताः । सुनन्दयाऽसौ पात्रकबन्धे मुक्तः । रुदनादुपासरत्, तं नीत्वा तद्भारनमद्वाहुर्मुनिरुपाश्रयं प्राप्तः, तं वीक्ष्य गुरु: सन्मुखं गत्वा तद्वाहुविश्रामार्थं बालकं कराभ्यां गृहीत्वा चाऽह - 'वज्रभारोऽयं तीर्थाधारो भविष्यति, अतो यत्नेन रक्षणीयः । ततो वज्रेति नामं दत्त्वा पालनार्थं संयत्युपाश्रये मुक्तः । शय्यातर्यः तं स्तन्यपानांगक्षालनाभिः स्वतेभ्योऽधिकं लालयन्ति । यदा स बालो मूत्रादि चिकीर्षति तदा सदा सुव्यक्तां संज्ञां चक्रे । सुनन्दा तं क्रीडन्तं दृष्ट्वा शय्यातरेभ्यो याचते, ते कथयन्ति - 'अयं गुरुसत्को न त्वत्कः ।' सा तं महता उपरोधेन तत्रागत्य स्तन्यपानादिना लालयामास । इतश्चाचलपुरे तापसशतयुतो पादलेपवित्कश्चित्तापसो पादुकारूढो पादलेपाज्जलेऽपि स्थलवच्चलन् जनयि विस्मयं जने । तद्भक्तजनः श्रावकाणामित्थं निन्दते - 'यादृक्षोऽस्मद्धर्मप्रभावः प्रत्यक्षो दृश्यते, न युस्माकं तादृग्' इत्याकर्ण्यार्ण्यसमिताचार्यो वज्रमातुलस्तत्राऽगात् । तस्मै तापसवृत्तान्तो न्यवेदि । स प्राह - नाऽस्य 6. कालीपर्वसङ्काशाङ्गः कृशो धमनीसन्ततः । मात्रज्ञोऽशनपानस्यादीनमनाश्चरेत् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy