________________
[साहम्मिआण वच्छल्लं]
[२२-साधर्मिकानां वात्सल्यम्] समानधर्माणां साधर्मिकाणां वात्सल्ये यत्नो विधेयः । यदुक्तम् - . "साहम्मिअंमि पत्ते घरंगणे जस्स होइ न हु नेहो ।
इअ जिणवरेण भणिअं संमत्ते तस्स संदेहो ।।" सर्वत्रापि साधर्मिकदुर्लभतोक्ता । यतः - "दुल्लहो माणुसो जम्मो, धम्मो सम्वनुदेसिओ ।
साहुसाहम्मिआणं च सामग्गी पुण दुल्लहा ।।" [श्राद्धदिनकृत्य-२१५] साधर्मिकैः सहोत्पन्नेऽपि सम्बन्धे विवादादयो न विधेया एव । यतः -
"विवायं कलहं चेव, सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु, जओ एअं विआहिअं ।। जो किर पहणइ साहम्मिअंमि कोवेण दंसणमयम्मि ।
आसायणं तु सो कुणइ निक्किवो लोगबंधूणं ।।" [श्राद्धदिनकृत्य-२०३, २०४] श्रीआगमेऽपि - "कहं णं भंते जीवा सुहं कम्मं बन्धंति ? गो० ! सम्मदंसणसुद्धीए-१, पसत्थमणवयणकायजोगेणं-२, इंदिअनिग्गहेणं-३, कोहाइविजएणं-४, धम्मसुक्कज्झाणेणं-५, आयरिअ उवज्झायसाहुसाहम्मिअभत्तीए-६, दाणसीलतवभावप्पभावणाए-७, वेरग्गेणं-८, निसग्गेणं९, संविभागेणं-१०, इच्चेहिं दसहिं ठाणेहिं जीवा सुहं कम्मं बंधंति ।।" 1. साधर्मिके प्राप्ते गृहांगणे यस्य भवति न खलु स्नेहः । इति जिनवरेण भणितं सम्यक्त्वे तस्य संदेहः ।। 2. दुर्लभः मनुष्य-जन्म, धर्मः सर्वज्ञ-देशितः । साधु-साधर्मिकानां च सामग्री पुनः दुर्लभा ।। 3. विवादं कलहं एव, सर्वथा परिवर्जयेत् । साधर्मिकैः सार्धं तु यतः एतत् व्याख्यातम् ।। 4. य: किर प्रहन्ति साधर्मिके कोपेन दर्शनमते । आशातनां तु स करोति निष्कृपो लोकबन्धूनाम् ।। 5. कथं भंते ! जीवाः शुभं कर्म बध्नन्ति ? गौ० सम्यग्दर्शनशुद्धया-१, प्रशस्तमनवचनकाययोगेन-२,
इन्द्रियनिग्रहेण-३ क्रोधादिविजयेन-४, धर्मशुक्लध्यानेन-५, आचायोपाध्यायसाधुसाधमिकभक्त्या-६, दानशीलतपभावप्रभावनया-७, वैराग्येन-८, निसर्गेण-९, संविभागेन-१०, इत्यादिभिर्दशभिः स्थानैर्जीवाः शुभं कर्म बध्नन्ति ।