________________
२७० .wwwwwwww
www.'मन्नह जिणाण आणं' स्वाध्यायः
गाथार्द्धसमस्यापूरयितुं प्रष्टकलक्षमामो दत्ते तम्“करपत्तयजलबिन्दुअनिवडणेण तं मज्झ संभरियं ।।" इति सूरिरपूरयत् । तस्य लक्षदानं, राज्ञा तुष्टेन सूरेराकारणाय प्रधानाः प्रेषिताः । उपालम्भश्च । "न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतम् ; न वा शुक्तिं मुक्तामणिरुरसिजस्पर्शरसिकः । न कोटीरारूढः स्मरति च सवित्री मणिचयः ; ततो मन्ये विश्वं स्वसुखनिरतं स्नेहविरतम् ।।" गुरुः प्रतिवाचिकम् । गय १ माणस २ चन्दण ३ भमर ४ रयणायर ५ ससिखण्ड ६ । जड ७ उज्जुअ ८ बपभट्टि किअ अट्ठह गाहा सुट्ठ ।।१।।
एवं ८ गाथा: । तत आम आगत आकारणार्थम् । तत: सभायां सूरयश्छलेन ज्ञापयन्ति 'आम आवउं' ३ बीजपूरकं करे कृत्वा 'बीजउरा' तुबरीपत्रं कर्णे कृत्वा 'तुंअरिपुत्त' आमोऽपि एककंकणं राजद्वारे, एक वेश्याया ग्रहणके मुक्त्वा प्रात: स्वराज्ये गतो मार्गमुक्ताश्ववारैः । प्रातः सूरिभिर्मुत्कलापितम् । राज्ञोक्तम् प्रतिज्ञा याति । आह - नैवं सा पूर्णा, केनाप्येकमामनामांकम्, द्वितीयं वेश्यया चार्पितम्, धर्मरज्ञः खेदः ।।
॥ इत्यामराजसम्बन्धः ।। इति गुरुभक्तिरिह जिनशासनप्रभावनयाऽमुत्र सुगतिप्रापकतयाऽऽराध्या एव ।।
[इइ गुरुथुइ]
२०. अत्र गाथाष्टकं सम्भाव्यते परमस्माभिः शब्दशः न प्राप्तं केषु ग्रन्थेषु । - संपा० । 23. करपत्रकबिन्दुकनिपतनेन तत् मया स्मृतम् ।। 24. गज-मानस-चन्दन-भ्रमर-रत्नाकर-शशिखण्ड । जड-ऋजुकः बप्पभट्टिः कृताष्टकगाथा सुष्ठु ।।