________________
गुरुथुइ
mmmmmmmmmmmm
mmmmmmm २६९
उज्जितसेल-सिहरे, दिक्खा नाणं निसीहिआ जस्स ।
तं धम्म-चक्कवट्टि, अरिट्ठनेमि नमसामि ।।२।। श्रीसङ्घ उपरि चटितः । ते दिगम्बरा निष्कासिताः । विनययाञ्चायां पश्चादपापामठोऽर्पित: स्वकीय एव तेषाम् । महती प्रभावना जाता । द्वौ श्रीसंघौ यात्रां कृत्वा स्वस्थानं गतौ । तद्दिनादात्मीयं जातं पुनरपि । अन्यदा राज्ञीं दृष्ट्वा राजा गाथार्धम् - “बाला चंक्कमंती पए पए, कीस कुणइ मुहभंगं ? ।" सूरि: - "नणं रमणपएसे मेहलया छिवइ नहपंति ।।"
श्रुत्वा राजा सशङ्कः । गुरुः कपाटे रह:काव्यानि लिखित्वा गतः । “अस्मान् विचित्रवपुषश्चिरपृष्टलग्नान्, कस्माद्विमुञ्चसि विभो ! यदि वा विमुञ्च । हा हन्त ! केकिवर ! हानिरियं तवैव, भूपालमूर्द्धनि पुनर्भविता स्थितिर्नः ।। यामः स्वस्ति तवाऽस्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता, वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ।। इक्काण वि तरुवर फिट्टइ पत्तमुत्तणं न पत्ताणं । तुहं पुण छाया जइ होइ तह विन्ता तेहिं पत्तेहिं ।।"
गौडदेशे लक्षणावत्यां बहिरारामे स्थिताः । श्री धर्मेण प्रवेशोत्सव: कारितः । स्वयमागत्यामाकारणे त्वां ज्ञापयित्वा त्वदनुज्ञया गन्तव्यमिति तस्य वचोऽदात् ।
तइया मह निग्गमणे पिआइ घोरसुएहिं जं रुण्णं ।
१९. अस्पष्टार्थासौ गाथा । - संपा० 19. उज्जयन्तशैलशिखरे दीक्षा ज्ञानं नैषेधिकी यस्य । तं धर्मचक्रवर्तिनमरिष्टनेमि नमस्यामि ।। 20. बाला चक्राम्यती पदे पदे कुत: कुरुते मुखभङ्गम् ? । 21. नूनं रमणप्रदेशे मेखलया स्पृश्यते नखपङ्क्तिः ।। 22. तदा मम निर्गमने प्रियया घोराश्रुभिर्यद् रुदितम् ।