________________
२६८
सकला इति ज्ञातव्यम् ।' सङ्घ विमुच्याष्टभिः श्राद्धैः सह धारको गतः । तत्र श्रीबप्पभट्टिसूरिणा श्रीआमप्रमुखश्रावकाणामग्रे व्याख्यानं प्रारब्धं महारसेन । धाराकेन श्रावकैश्च वन्दिताः श्रीगुरवः । श्रीजैनशासनपक्षपातकारिणां श्रीगुरूणां व्याख्याने आज्ञास्ति । राज्ञा सावष्टम्भं विलोकिताः । श्रीबप्पभट्टिसूरिभिः धाराकपार्श्वात् पूर्ववृत्तान्तः पृष्टः । पूर्ववृत्तान्तोऽम्बिकादेशश्च कथितः । श्रीसूरिभिरुज्जयन्तमाहात्म्यं कथितम् । " गत्वा शत्रुञ्जयं तीर्थं दृष्ट्वा रैवतकाचलम् । स्नात्वा गजप कुण्डे पुनर्जन्म न विद्यते ।।
"
'मन्नह जिणाण आणं' स्वाध्यायः
हर्षवशादभिग्रहो गृहीतो राज्ञा । श्रीनेमिं पूजितं विना न भोजनं करिष्ये । राज्ञः पृष्टे च सहस्रश्रावकैः भार्यया कामलदेव्या च सोमेश्वरनमस्कारं विना भोजनं न हि । सर्वसामग्ग्रा चलितम् । एकलक्षपोठिका, उष्ट्रसहस्रद्वि - हस्तिसप्ततिशत- अश्वलक्षैक- पत्तिलक्षैक - श्रावकसहस्रद्वाविंशति, द्वात्रिंशत्तमे उपवासे श्रीस्तम्भतीर्थे देहापाटवम् । श्रीसंङ्घाग्रहोऽभिग्रहमोचने ।
“यस्मिन् कुले यः पुरुषः प्रधानः, सदैव यत्नेन स रक्षणीयः ।
तस्मिन् विनष्टे हि कुलं विनष्टम्, न नाभिभङ्गे ह्यरका वहन्ति ।”
नृपवचः -
" राज्यं यातु श्रियो यान्तु, यान्तु प्राणा अपि क्षणात् ।
या मया स्वयमेवोक्ता, वाचा सा यातु शाश्वती ।। "
अथ सत्वाद्रात्रावम्बिकादेशः । प्रातः श्रीनेमिस्तव सत्त्वेनागमिष्यति, पारणकं कर्तव्यम् । यत्राद्रदूर्वोपरि पुष्पप्रकरं द्रक्षसि । तत्र हस्तेन खरः चलनीयम् । श्रीनेमिस्तत्र प्रकटीभविष्यति, प्रभाते तदेव जातम्, राज्ञ्या भणितम् - 'स्वामिन् ! पारणं क्रियताम् ।' राजाह - 'त्वां विना नहि करिष्ये । पुना रात्रौ सोमेश्वरमूर्तिः । तथापि न मन्यते । प्रातः नदीस्थाने समुद्रागमः पारणं कृतं द्वाभ्यां प्रासादद्वययोग्यं द्रव्यमर्पितम् । ततः प्रयाणकै रैवतकतलहट्टिकायां नरः प्रेषितः सूरिभिर्मण्डलाचार्याणां पार्श्वे - यदि युध्यते ततो बहुजीवसंहारोऽतो आत्मनोर्मध्ये वादं गृहीष्यामः । मन्यामासं यावत् । विवादे केनापि न जीयते । आमराज्ञा धाराकेन च विज्ञप्तं बहवो दिना जाताः । प्रभुणा भणितम् ' अद्य निर्वाहयिष्यामः ।' एकत्रिंशे दिने कुमारिका यस्य तीर्थं समर्प्ययिष्यति तस्यैव तीर्थम्, मण्डलाचार्यैर्भणितमेतत्प्रमाणम् । मंडिता पूर्वं कुमारी तैः । पात्रं न पूरितम् । बप्पभट्टिसूरयो ध्याने उपविष्टाः, प्रभुणा धाराको वासान् दत्त्वा प्रेषितस्तेन कुमारीमस्तकोपरि क्षिप्ताः । तदनन्तरं तया भणितम् -
18
इक्को वि मुक्का, जिणवर वसहस्स वद्धमाणस्स । संसार-सागराओ, तारेइ नरं व नारि वा ।।
18. एकोऽपि नमस्कारः, जिनवर - वृषभाय वर्द्धमानाय । संसारसागरात्, तारयति नरं वा नारिं वा ।।