________________
गुरुथुइ
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm २६७
इत्थमाम्रभटमनुमोद्य गुरुक्षमापती यथागतं जग्मतुः । अथ तत्रागतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवीदोषात्पर्यन्तदशां गतस्य प्रच्छन्नविज्ञप्तिकायामुपागतायां सत्यां तत्कालमेव- 'तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः सञ्जातः' इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमात्रादलङ्कृत्तभृगुपुरपरिसरभुवः प्रभवः सैन्धवां देवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादवगणनास्पदं नीयमानाः [श्रीहेमसूरयः], उदूखले शालितन्दुलान् प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादः कम्पितः, द्वितीये प्रहारे दीयमाने सा देवीमूर्तिरेव स्वस्थानादुत्पत्य 'वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्ष इत्युच्चरन्ती प्रभोश्चरणयोः निपपात । इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्यादृग्व्यन्तरामरीणां दोषं निगृह्य श्रीसुव्रतप्रासादमासेदिवांसः ।
"संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कराः, विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः । किं वास्माकं मनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः ।।"
[प्रबन्धचिन्तामणि] इति स्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघस्नानेन पटुकृत्य यथागतमागुः । श्रीमदुदयनचैत्ये शकुनिकाविहारे घटीगृहे च राज्ञा कौङ्कणनृपतेः कलशत्रितयं न्यास्थत श्रीमानाम्रभटो राजपितामहः ।।
।। इति श्रीमदाम्रभट्टकथा ।।
तथा -
।। अथाऽऽमराजकथा ।। सुराष्ट्रायां गोमण्डलनगरात् सप्तपुत्रैः सप्तदशशतयोद्धेस्त्रयोदशशतशकटैस्त्रयोदशकनककोटीस्वामी धाराकः श्रावकः सङ्घ कृत्वा श्रीतीर्थनमस्करणाय चलित: । श्रीशत्रुञ्जये युगादिजिनमानम्य रैवतकतल - हट्टिकायां सङ्घः स्थितः । तीर्थं पुनरग्रे दिगम्बरैरधिष्ठितम्, दिगम्बरैर्वादे बौद्धान् जित्वा पञ्चाशद्वर्षाणि यावत् श्वेताम्बरः कोऽपि न गतः । धाराकश्रावकेण ज्ञापितमस्ति । चतुरशीतिमण्डलाचार्याणां समीपे यदहंतीर्थवन्दनायागच्छन्नस्मि । तैर्भणितम्, दिगम्बरश्रावको भूत्वा समागच्छ । धाराकेन चिन्तितम्- यदहंप्राणान्तेऽपि गुरुक्रमंन मोचयिष्यामि । अन्यत् श्रीउज्जयन्ततीर्थनमस्कारं विना प्राणान्तेऽपि न गमिष्यामि । धाराकश्चिन्तायामापतत्, पुत्रैः पृष्टे ज्ञाते च प्रोक्तं किं प्रयोजनं दिगम्बरतीर्थं बलान्नमस्करिष्यामः । मण्डलाचार्यैः श्रावकखंगारराज्ञां ज्ञापितम्, तत्सैन्येन युद्धम् । सप्तपुत्रा मृत्वा क्षेत्रपतयो बभूवुः । तेषां नामानीमानि कालमेघादय: सप्त । तत: सङ्घो धाराकश्चन जेमति । तृतीयोपवासेऽम्बिकया भणितम् - 'अहो धाराक ! षट्त्रिंशल्लक्षप्रमाणदेशे कन्यकुब्जाभिधे गोपालपुरे आमो नाम राजा यस्य एकसहस्रनगराणि त्रिकोटिपञ्चाशतलक्षाणि पदातयः, चतुर्दशसहस्रा इभाः, द्विलक्षाश्वादिसमृद्धिः । तत्र श्रीबप्पभट्टिसूरीन् विना दिगम्बरा: केनापि न जीयन्ते, एषां मन्त्रा व्यन्तराश्च