________________
गुरुथुइ
इत्यावश्यक बृहद्वृतौ ।
अतो गुरुभक्तौ यतनीयमेवायतिसुखार्थिभिर्भा[र्भ]विभिः ।
।। अथ सुनक्षत्रकथा ।।
स्थितप्रतिष्ठिते जितशत्रुः, धनावहेभ्यधारणीसू: सुनक्षत्र: स्वाम्युक्तं जीवकर्मणोरष्टलेपलिप्ताऽलाबुदृष्टान्तं श्रुत्वा प्रव्रजितः । इतश्च गोशालोत्पत्तिः, श्रीवीरप्रद्वेष- पार्श्वागमादिवाच्यम्, श्रीवीरनिर्भत्सनावसरे सर्वानुभूतिमुनिः'त्वं स्वामिनैव प्रव्राजितस्तस्यैव प्रत्यनीकोऽसी 'ति ब्रुवन् रुष्टगोशालेन तेजोलेश्यया भस्मीकृतः सहस्रारेऽष्टादशाब्ध्यायुर्देवस्ततो विदेहे सेत्स्यति । ततो द्वितीयवारमाक्रोशनेऽसहमान: सुनक्षत्रोऽपि तेजसा तापितः, सर्वं क्षमयित्वा मृतो ऽच्युते द्वाविंशत्यब्ध्यायुः विदेहे सेत्स्यति ।
।। इति सुनक्षत्रकथा ।।
गुरुभक्तौ परलोकफलम् -
~~~ २६५
।। अथ श्रीमदाम्रभट्टकथा ।।
अथ विश्वैकसुभटेन श्रीमदाम्रभटेन पितुः श्रेयसे श्रीभृगुपुरे शकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्त्तापूरे नर्मदासानिध्यादकस्मान्मिलितायां भूमौ बाधितेषु कर्मकरेषु कृपापरवशतयात्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पां ददौ । अधःपातेऽप्यक्षताङ्गी निस्सीमं तत्सत्त्वोद्रेकप्रीणितया कयाचिद्देवतया स्त्रीरूपतयाSबाधितः का त्वमित्यपृच्छत् । अहमस्य क्षेत्रस्याधिष्ठात्री, तव सत्त्वपरीक्षार्थमेतन्मया कृतम् ।
“स्तुत्यस्त्वं वीरकोटीरय-स्येदृग् सत्त्वमुत्कटम् ।
नोचे जने धनेऽप्येवं मृते त्वद्वन्म्रयेत कः ।। "
ते सर्वेऽपि कर्मकरा अक्षताङ्गाः सन्ति । असमाधिर्न कार्या, कुरु स्वकार्यमित्याद्युक्त्वा देवी तिरोहिता । मन्त्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः । ततो देवीनां भोगं कारयित्वा अष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिका - मुनि-न्यग्रोधादिमूर्त्तयश्च लेप्यमय्यः कारिता: ।
1
“विक्रमाद्व्योमनेत्रार्कवर्षे [१]२२० हर्षादचीकरत् । वीराग्रणीः शकुनिकाविहारोद्धारमाम्बडः ।। "
प्रतिष्ठार्थं श्रीकुमारपालनृप - श्रीहेमाचार्य-सकल श्रीसंङ्घानामाकारणम्, महामहैः श्रीसुव्रतप्रतिष्ठामल्लिकार्जुनकोशीय - श्रीकुमारपालप्रसादित द्वात्रिंशत्स्वर्णघटीमितकलश-हैमदण्डपट्टकूलमयध्वजान् यथाविधिं प्रतिष्ठाप्य दत्तवान् प्रासादे, हर्षोत्कर्षावेशात् प्रासादमूर्ध्नि चटित्वा स्वर्णरत्नोत्करान् ववर्ष ।
निरीक्षिता पुराप्यासीद्वृष्टिर्जलमयी जनैः ।
तदा तु ददृशे क्षौम- स्वर्णरत्नमयी पुनः ।।
१८. अत्र विक्रमाद् १२२० वर्षे ज्ञेयः, वर्षसहस्रं न गणितम् ।