SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ [गुरुथुइ] [२१-गुरुस्तुतिः] गुरुथुइ गुरूणां स्तुतिर्विधेया भविभिः । यतः “निघण्टोक्तौवशब्दार्थः प्रमाणं यदि धीमता । तत्किं गुरुर्विधेये तकः सार्थः सरलेऽध्वनि ।। " पुरा संप्रत्यागामिकालेऽपि च तारकाः श्रीगुरव एव । यतः “विदलयति कुबोधं बोधयत्यागमार्थम् ; सुगतिकुगतिमार्गे पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्य: ; भवजलनिधिपोतस्तं विना नास्ति कश्चित् ।। " गुरुयोगं विना. जिनधर्मयोगोऽपि दुर्बोधः । यदुक्तम् - " दिनं न तपनं विना, न शशिनं विना कौमुदी; श्रियो न सुकृतं विना, न जगति विना विक्रमम् । कुलं न तनयं विना, न समतां विना निवृत्तिः ; गुरुं च न विना नृणाम् भवति धर्मतत्त्वश्रुतिः ।। " १९. अस्य श्लोकस्य भावार्थो न ज्ञातः । संपा० २. 'त्वद् चात्र' हस्त० । [ ] [सिन्दूरप्रकरण-१४] गुरूपदेशोऽभव्येष्वपि किञ्चिद्गुणाभिमुख्यं कुर्यात् । यतः " भवेदभव्येऽपि गुरूपदेशाद्गुणो बहिः कोऽपि न वास्तवस्तु । सौधाश्रया स्यात् गृहगोधिकाऽपि न चात्र शुद्धा न पुनर्दयालुः ।। " २ [ ] [ ]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy