SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ जिणथुणणं mmmmmmmmmmmmm wwwwwwwwwww२५७ [शान्तो वेषः शमसुखफला: श्रोतृगम्या गिरस्ते, कान्तं रूपं व्यसनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृतपतेस्त्वय्यसङ्गा विबोधे, प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति ।।१।। अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं, शमसुखफल: प्राप्तौ धर्मः स्फुट: शुभसंश्रयः । मनसि करुणा स्फीता रूपं परं नयनामृतं, किमिति सुमते ! त्वय्यन्य: स्यात् प्रसादकरं सताम् ।।२।। निरस्तदोषेऽपि तरीव वत्सले कृपात्मनि त्रातरि सौम्यदर्शने । हितोन्मुखे त्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् ।।३।। सर्वसत्त्वहितकारिणि नाथे न प्रसीदति मनस्त्वयि यस्य । मानुषाकृतितिरस्कृतमूर्तेरन्तरं किमिह तस्य पशोर्वा ? ।।४।। त्वयि कारुणिके न यस्य भक्तिर्जगदभ्युद्धरणोद्यतस्वभावे । नहि तेन समोऽधमः पृथिव्यामथवा नाथ ! न भाजनं गुणानाम् ।।५।। एवंविधे शास्तरि वीतदोषे महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव प्रद्वेषदग्धेषु क एष वादः ? ।।६।। न तानि चढूंषि न यैनिरीक्ष्यसे न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणान्न ते गुणा ये न भवन्तमाश्रिताः ।।७।। तच्चक्षुदृश्यसे येन तन्मनो येन चिन्त्यसे । सज्जनानन्दजननी सा वाणी स्तूयसे यया ।।८।। न तव यान्ति जिनेन्द्र ! गुणा मितिं मम तु शक्तिरुपैति परिक्षयम् । निगदितैर्बहुभिः किमिहापरैरपरिमाणगुणोऽसि नमोऽस्तु ते ।।९।।] इति स्तोत्रं बभाण । मिथ्यात्विवेषं त्यक्त्वा स्वीकृतजैनवेष: श्रीबप्पभट्टिदीक्षितोऽष्टादशपापस्थानान्युत्सृज्य अष्टादशदिनानशनं प्रपाल्य देवीभूयैकावतारी सिद्धो भविता । ।। इति श्रीबप्पभट्टिसूरिप्रतिबोधितस्य वाक्पतेः सम्बन्धः ।। - [इइ जिणथुणणं]
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy