________________
२५६
"दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ।। " “सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचते;
धत्से यत्व परां विलज्जशिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद्विषं भक्षितम् ; मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ।।” “उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा ; धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः ; शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ।। कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती त्वयैव । अबाह्यसंवित्सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चित्तम् || "
“आसंसारं सरिआसएहिं हीरंतरेणुनिवहेहिं ।
पुहवी न निट्ठिय च्चि उदही वि थली न संजाओ ।।"
'मन्नह जिणाण आणं' स्वाध्यायः
[शार्ङ्गधरपद्धति - ११७]
इत्यादि कर्णकटुः स श्रुत्वा नासिकामाकूण्य विमनाः प्राह- 'अमूनि रसकाव्यानि समयस्तवितानि मित्र ! त्वया कुत उच्यते ? सम्प्रति पारमार्थिकवचोभिर्मम प्रतिबोधावसरः । ' गुरुः प्राह- 'साधु साधूक्तम्। मित्र ! किञ्चित्तु प्रष्टव्यमस्ति । इदं देवानां स्वरूपं सत्यमसत्यं वा ? यदि सत्यं तदा किं विमनायसे ? अथासत्यं तदा देवादीन् त्वं विचारय ।' वाक्पतिः प्राह- 'मित्र ! कथय तत्त्वम् ।' गुरुराह - 'धर्मोपदेशं देवादितत्त्वस्थापकम् ।' ततः प्रबुद्धः स प्राह- 'भगवन्मम मनस्येकः सन्देहोऽस्ति । अनन्ताः प्राणिनो मुक्तिं याता यान्ति यास्यन्ति च, एवं संसारो रिक्तः कथं न भवेत् ?' गुरुः प्राह
“मयनाहिकलुसिएणं इमिणा किं किर फलं निडालेण ।
इच्छामि अहं जिनवर-पणामकिणकलुसियं काउं ? ।।”
[उपदेशरत्नाकरवृत्तौ]
वाक्पतिश्चमत्कृतः प्राह- ‘ईयन्तं कालं भगवन् परमार्थबहिष्कृता वयम् । उक्तं च तेन -
-
तत: बप्पभट्टिराह - 'त्वं संन्यस्त एव जैनं धर्मं श्रय । इति श्रुत्वा स गुरुभिः सह तद्भवनादुदस्थात् । आजगामाशु पार्श्वस्य स्तूपे श्रीपार्श्वमन्दिरे तदात्मस्वरूपोपदेशप्रतिबोधितः सन् 'शान्तो वेष : '
2. आसंसारं सरिताशतैर्हरत्रेणुनिवहैः । पृथ्वी न निष्ठितैव उदधिरपि न स्थली सञ्जातः ।।
3. मृगनाभिकलुषितेनानेन किं किल फलं ललाटेन । इच्छाम्यहं जिनवरप्रणामकिणकलुषितं कर्तुम् ? ।।