________________
जिणथुणणं
mmmmmmmmmm २५५
कोऽपि विश्वचमत्कारकारी दीत' इत्यभिधाय चतुश्चत्वारिंशता निगडैनिजमङ्गं नियमितं कारयित्वा तन्नगरवर्तिनः श्रीयुगादिदेवस्य प्रासादस्य पाश्चात्यभागे स्थितो मन्त्रगर्भ 'भक्तामरे'ति नवं स्तवं कुर्वन् प्रतिकाव्यं भग्नैकैकनिगड: शृङ्खलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ।
॥इति श्रीमानतुङ्गाचार्यप्रबन्धः ।। जिनस्तुतिरमुत्रापि फलदायिनी श्रीउत्तराध्ययने प्रोक्ता । यथा -
"थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जिणयइ । नाणसणचरित्त-बोहिलाभ-संपण्णे अ णं जीवे अंतकिरिअंकप्पविमाणोववाईअं आराहणं आराहेइ ।"
[उत्तराध्ययन - २९/१४] इत्यादि । अथ परलोके सम्बन्धः -
॥अथ श्रीबप्पभट्टिसूरिप्रतिबोधितस्य वाक्पतेः सम्बन्धः ।। अन्यच्च भगवन् ! तव पुरः किञ्चिद् वच्मि । भवन्तोऽपि बालगोपालादिकं प्रबोधयन्ति, न तु कोविदं कमपि ।
"रम्भा फलं यथा भक्षं न तु निम्बफलं तथा ।
शक्तिश्चेद् भवतामद्य मध्ये मथुरमागतम् ।।" हृदि विष्णुं ध्यायन्तं यज्ञोपवीतालङ्कतनासाग्रन्यस्तदृशम्, तुलसी-पत्रजीवमालाश्लिष्टवक्षस्थलम्, कृष्णगुणगायकवैष्णववृन्दवृत्तम्, वराहस्वामिदेवस्य प्रासादान्तःस्थम्, वैराग्याद्गृहीतानशनं पर्यङ्कासनस्थं प्रबोध्य जैनमते स्थापयत वाक्पतिराजसामन्तम्, तदा गौरवम्, ततो गुरवस्तत्प्रतिबोधं प्रतिज्ञाय चतुरशीतिसामन्तविदुरसहस्रपरिवृता मथुरायां वराहस्वामिमन्दिरं प्रापुः । श्रीगुरवस्तं तादृक् स्वरूपं ददृशुः । ततस्तच्चेत: परीक्षितुं काव्यत्रितयी [त्रयीस्तवनतत्परम् काव्यवृन्द] माहुः । तथाहि - "रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितुः । वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननीकथामिति हरेहुंङ्कारिणः शृण्वतः; पूर्वस्मर्तुरवन्तु कोपकुटिला भ्रूभङ्गरा दृष्टयः ।।"
[उपदेशरत्नाकरवृत्तौ १२. ...ववत्तिअं' मुद्रितोत्तराध्ययनसूत्रे । १३. ‘हुन्ताम्पितुः' हस्त० । 1. स्तवस्तुतिमङ्गलेन भन्ते ! जीवः किं जनयति ? स्तवस्तुतिमङ्गलेन ज्ञानदर्शनचारित्रबोधिलाभं जनयति ।
ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तक्रियां कल्पविमानोपपातिकामाराधनामाराधयति ।