________________
[जिणथुणणं]
[२०-जिनस्तवनम्]
जिणथुणणं जिनानां स्तवनम् । तद्विधेयं मोक्षार्थिभिः । जिनस्तुतेर्मोक्षसाधनत्वे
किं वक्तव्यम् ? यतः कल्याणमन्दिरस्तोत्रे -
"आस्तामचिन्त्यमहिमा जिनसंस्तवस्ते,
[कल्याणमन्दिरस्तोत्र-७]
नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहततपान्थ - जनान्निदाघे, प्रीणाति पद्म- सरसः सरसोऽनिलोऽपि ।। " जिनस्तुतिः क्रियमाणा इहलोकेऽपि फलदायिनी । यथा श्रीभद्रबाहुस्वामिभिरुपसर्गहरस्तोत्रं श्रीपार्श्वनाथस्तुतिरूपं विधाय श्रीसङ्घमध्ये मरकिमांद्यनिवार्य शान्तिः कृता । तथा श्रीसिद्धसेनदिवाकरैः श्रीपार्श्वनाथस्तुतिरूपं कल्याणमन्दिरस्तोत्रं कृत्वा ‘यस्मिन् हरे’ति-११ कवित्वे प्रोच्यमाने महाकालप्रासादे शम्भुलिङ्गद्विखण्डीभवनेन श्रीपार्श्वनाथप्रतिमाप्रकटनेन श्रीजिनशासनोन्नतिं विरचय्य परगृहीतं स्वायत्तीकृतम् । तथा श्रीमानदेवसूरिभिः भयहरस्तोत्रेण सप्तभयनिवृत्तिर्विदधे तदा, अद्यापि तथैव तत्स्मरणेन सर्वत्रापि प्रायः सप्तभयनिवृत्तिरनुभूयमानास्ति ।
।। अथ श्रीमानतुङ्गाचार्यसम्बन्धः ।।
अथ मयूर - बाणाभिधानौ भावुकशालको पण्डितौ निजविद्वत्तया मिथः स्पर्द्धमानौ नृपसदसि लब्धप्रतिष्ठावभूताम् । कदाचिद्बाणपण्डितो जामिमिलनाय तद्गृहं गतो निशि द्वारप्रसुप्तो भावुकेनानुनीयमानां समानां जामिं निशम्य तत्र दत्तावधान इत्यशृणोत् -
“ गतप्राया रात्रिः कृशतनु शशी ! शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो, "
इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य,
“कुचप्रत्यासत्या हृदयमपि ते चण्डि ! कठिनम् ।।"
१. 'समानां' हस्त० नास्ति । २. 'इमां' हस्त० ।