SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ जिणपूआ mmmmmmmmmmmmmmm mmmmmmmm २५१ 'पुण्यसार' इति नाम दत्तम्, स उद्यौवनो जातः, राजा तस्मै राज्यं दत्वा दीक्षां जग्राह, कालेन केवली जात:, कामरूपे पुरे समागतः, पुण्यसारो वंदनाय गतः, पौराः सर्वे समागताः, पुण्यसारजननी मातंग्यपि तत्रायाता, राजानं दृष्ट्वा तस्याः स्तन्यप्रस्रवो जात:, राज्ञा कारणं पृष्ट: केवली प्राह-'हे राजन् ! एषा तव माता, मया त्वं वने पतितो लब्धः,' राज्ञा पृष्टम्-'केन कर्मणाहं मातङ्गो जात: ?' ज्ञानी प्राह-'पूर्वभवे त्वं व्यवहारी अभूः, त्वयैकदा जिनं पूजयता पुष्पं भूमौ पतितं देवस्यानारोप्यं जानताप्यवज्ञयारोपितम्, तेन त्वं मातङ्गो जातः ।' यत: “उच्चिद्वं फलकुसुमं, नेविज्जं वा जिणस्स जो देइ । सो नीअगोअकम्मं, बंधइ पायन्नजम्मंमि ।।" [श्राद्धविधिवृत्ति तव पूर्वभवे या माताभूत्तयैकदा स्त्रीधर्मेऽपि देवपूजा कृता, तत्कर्मणा सैषा मातङ्गी जाता, ततो वैराग्याद् राज्ञा दीक्षा गृहीता । अत: स्नानाद्यकृत्वा देवपूजा न कार्या । भूपतितं पुष्पं सुगन्ध्यपि देवानां नारोप्यम्, स्वल्पेऽप्यपावित्र्ये देवानां नाभ्यर्चनीयम्, विशिष्य चोच्छिष्टिदिने स्त्रीभिवृहदाशातनादिदोषात् । इति देवपूजा शुचितया कर्तव्या । [श्राद्धविधिवृत्ति ।। इति पुण्यसारकथा ।। अष्टप्रकारपूजा विवेकिना प्रत्यहं त्रिधा विधेया तदभाव एकधा वा । अष्टप्रकारोपचारापर्याप्तौ प्रदीपाक्षतादि कार्यमेव । यत: - "निच्चं चिअ संपुन्ना, जइ वि हु एसा न तीरए काउं । तहवि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेण ।।" [चैत्यवन्दनमहाभाष्य-२१६] तृतीया सर्वोपचारा प्रायोऽङ्गाग्रभावविषया । तथैवाह - __“सब्बोवयारपूया, न्हवणच्चणवत्थभूसणाईहिं । ... फलबलिदीवाइनट्ट-गीयआरत्तियाईहिं ।।" [सम्बोधप्रकरण-१८८] पूजावसरे शक्तौ प्रदीपो घृत-अगुरु-कर्पूरादिभिरेव कार्य: । तथा - ३१. 'अजनि' हस्त० । ३२. अजनि' हस्त० । ३३. अपि सौरभतया देवस्य चढापितम्' हस्त० । ३४. त्रिविधेया तदभावेकधा वा, अष्टप्रकारोपाचारा...' हस्त० । 37. उच्छिष्टं फल-कुसुमं नैवेद्यं वा जिनस्य यः ददाति । सः नीचगोत्रकर्म बध्नाति प्रायोऽन्यजन्मनि ।। 38. नित्यमेव संपूर्णा यद्यपि खल्वेषा न तीर्यते (शक्यते) कर्तुम् । तथाऽप्यनुष्ठातव्याऽक्षत-दीपादिदानेन ।। 39. सर्वोपचारपूजा स्नपना-ऽर्चन-वस्त्र-भूषणादिभिः । फल-बलि-दीपादि-नाट्य-गीता-ऽऽरात्रिकादिभिः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy