SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २५० mmmmmmmmmmmm .....'मन्नह जिणाण आणं' स्वाध्यायः बृहत्भाष्ये - "न्हवणविलेवणआहरण-वत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ तत्थ विही एस नायव्वो ।।" [सम्बोधप्रकरण-५७] यथा श्रीवस्तुपाल: स्वकारितसपादलक्षबिम्बानां श्रीशत्रुञ्जयसर्वबिम्बानां च .रत्नसुवर्णाभरणानि कारितवान् । परिधापनिका नव्यपट्टदुकूलादि-चन्द्रोदयादिविधापनम्, जिनहस्तोपरि सौवर्णबीजपूरनालिकेरादिमोचनम्, धूपोत्क्षेप-सुगन्धवासप्रक्षेपाद्यपि च सर्वमङ्गपूजायां भवति । पूजावसरे - "कायकंडूयणं वज्जे, तहा खेलविगिचणं । थुइथुत्तभणनं चेव, पूअंतो जगबंधुणो ।। [श्राद्धदिनकृत्य-५८] जिणभवणबिंबपूआ, कीरति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण ईयराण बोहत्थं ।। [चैत्यवन्दनमहाभाष्य-१४२] चैइहरेण य केई, पसंतरूवेण केइ बिंबेण । पूयाइसया अन्ने, अन्ने बुझंति उवएसा ।।" [सम्बोधप्रकरण-५९, ७०, ७१] "निःशूकत्वादशौचोऽपि देवपूजां तनोति यः । पुष्पैर्भूपतितैर्यश्च भवत: श्वपचाविमौ ।।" [श्राद्धविधिवृत्ति यथा ।। अथ पुण्यसारकथा ।। कामरूपपत्तने मातंगस्यैकस्य पुत्रो जातः स जातमात्र एव पूर्वभववैरिणा व्यंतरेणापहत्य वने मुक्तः, इतश्च कामरूपपत्तनाधिपो राजा राजपाटिकायां निर्गतः, वने स बालको दृष्टः, अपुत्रत्वेन गृहीत: पालितश्च २९. 'मोणं वा कइभण्णं कुज्जा' सम्बोधप्रकरणे । ३०. अबुहाण' सम्बोधप्रकरणे । 33. स्नपनविलेपनाभरणवस्त्रफलगन्धधूपपूष्पैः । क्रियते जिनाङ्गपूजा तत्र विधिरेषो ज्ञातव्यः ।। 34. कायकण्डूयनं वर्जेत् तथा श्लेश्मविवेचनम् । स्तुतिस्तोत्रभणनं चैव पूजन् जगद्बन्धून् ।। 35. जिनभवनबिम्बपूजा क्रियते जिनानां नो कृते किन्तु । शुभभावनानिमित्तं बुधानामितरेषां बोधार्थम् ।। 36. चैत्यगृहेण च केचित् प्रशान्तरूपेण केचित् बिम्बेन । पूजातिशयादन्येऽन्ये बुध्यन्ते उपदेशात् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy