________________
२४८ mmmmmmmmm
awar'मन्नह जिणाण आणं' स्वाध्यायः
।। अथाष्टविधजिनपूजाफले कथा ।। महाविदेहे पुष्कलावतीविजये पुण्डरीकिणीनगर्यां विजयसेनचक्री राज्यं करोति । अन्यदा सुयशातीर्थकृत्समवसृतः। “आगासगएणं छत्तेणमित्यादि..." ऋद्धि-विधिना चक्री जिनागमनज्ञापकदत्तप्रीतिदानो वन्दितुं महा गतः । पञ्चविधाभिगमादि, विधिपूर्वं जिनवन्दनम्, तस्मिन्नवसरेऽष्टौ देवा जिनवन्दनायायाता:, राज्ञा दृष्टाः, तेषां ३२ बद्धनाटककरणं संहरणं च, चक्रवर्त्यादीनां विस्मयः, देवैः पृच्छा कृता - 'वयं भव्या अभव्या वा ?' भगवतादिष्टम्- 'भव्या एव यूयम् ।' पुनः पृच्छा-'किमासनसिद्धिका दूरभव्या वा ?' जिन: प्राह- 'आसनसिद्धिका एव ।' पुनरपि पृच्छा- 'कस्मिन् भवे मुक्तिं यास्याम: ?' स्वामिना कथितम्'देवलोकाच्च्युत्वाऽत्र विजये नृपीभूय दीक्षां लात्वा मुक्तिं यास्यथ ।' चक्रिणा पृष्टम्- 'एभिः पूर्वजन्मनि किं सुकृतं कृतम् ?' जिनेनोक्तम्- 'धातकीखण्डे भरते महामलयपुरे सुदत्तश्रेष्ठिनो रुक्मिणीभार्यायामष्टौ पुत्राः । धन-विमल-शिख-आरक्ष-वरसेन-शिव-वरुण-सुयशा: सुव्रताः। एकदा सुव्रतजिनदेशना एवमश्रावि ।
“जो पुएइ तिसंझं, जिणिंदरायं सया विगयदोसं । सो तइयभवे सिज्झइ, अहवा सत्तट्ठमे जम्मे ।।"
[सम्बोधप्रकरण-२१८] सा पूजा द्रव्य-भावाभ्यां द्विधा, तत्र -
"द्रव्यतोऽष्टविधा पूजा फलैः सद्गन्धचन्दनैः । __पुष्पैस्तथाक्षतैयूंपै-नैवेद्यै-दीपकै-जलैः ।।" भावतस्तु एवम् -
“श्रद्धानीरं मनःपुष्पं धीधूपं ज्ञानदीपकम् ।
विषयत्यागनैवेद्यं सा पूजा परमेश्वरे ।।" स्तोकापि शुभाध्यवसायरूपा पूजादिका क्रिया विशिष्टगुणपात्रविषयाऽक्षयफलैव । यदुक्तम् -
“एंगं पि उदगबिंदूं, जह पिक्खित्तं महासमुद्दम्मि । जायइ अक्खयमेवं, पूजा वि हु वीयरागेसैं ।। उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूजाए वीयरागाणं ।।" [उपदेशपद-१०२३, १०२४, पञ्चाशक-१९१-१९२]
२४. 'जिणगुणसमुद्देसु' पञ्चाशके । २५. 'जिणवरिंदाणं' पञ्चाशके । 26. यः पूजयति त्रिसन्ध्यं जिनेन्द्रराजं सदा विगतदोषम् । स तृतीयभवे सिध्यत्यथवा सप्ताष्टमे जन्मनि ।। 27. एकोऽप्युदकबिन्दुः यथा प्रक्षिप्तो महासमुद्रे । जायतेऽक्षतः एवं पूजापि हु वीतरागेषु ।। 28. उत्तमगुणबहुमानः पदमुत्तमसत्त्वमध्यकारे । उत्तमधर्मप्रसिद्धिः पूजया वीतरागाणाम् ।। .