SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ जिणपूआ mmmmmmmm mmmmmmmmm २४५ स्नात्रार्हसुगन्धजलक्षेपः, श्रेण्या तेषां व्यवस्थापनम्, सद्वस्त्रेणाच्छादनं च । ततः स्वचन्दनधूपादिना कृततिलकहस्तकंकणहस्तधूपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति । तथाहि "सयवत्त-कुंद-मालइबहुविहकुसुमाइं पंचवन्नाइं । जिणनाहण्हवणकाले, दिति सुरा कुसुमंजलिं हिट्ठा ।।" [श्राद्धविधिवृत्ति इत्युक्त्वा देवस्य मस्तके पुष्पारोपणम् । "गंधायड्डिअमहुअरमणहरझंकारसद्दसंगीआ । जिनचलणोवरि मुक्का हरउ तुम्ह कुसुमंजली दुरिअं ।।" [श्राद्धविधिवृत्ति] इत्यादिपाठः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधूपादिविस्तरो ज्ञेयः । अथोदारमधुरस्वरेणाधिकृतजिनजन्माभिषेककलशपाठः । ततो घृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि । स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्यं कार्यम् । यदाहुदिवेतालश्रीशान्तिसूरयः -- "आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् ।।" [अर्हदभिषेक-३/४] स्नात्रे च क्रियमाणे निरन्तरं चामरसङ्गीततूर्याद्याडम्बर: सर्वशक्त्या कार्यः । सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्चायम् - __ "अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान्, भूयोऽपि भिनत्तु भागवती ।।" [अर्हदभिषेक-३/१२] १५. 'ततः.. कृत्याः' इति पाठो हस्तप्रतौ नास्ति । १६. 'सा चेयम्' हस्त० । 15. शतपत्रकुन्दमालतिबहुविधकुसुमानि पञ्चवर्णानि । ___ जिननाथ-स्नपनकाले ददाति सुराः कुसुमाञ्जलिं हृष्टाः।। 16. गन्धाढ्यमधुकर-मनोहरझंकारशब्दसङ्गीताः । जिनचरणोपरि मुक्ता हरतु तव कुसुमाञ्जलिर्दुरितम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy