________________
।। अथ तृतीयगाथाव्याख्याने प्रबोधदीपिकायां तृतीयः प्रस्तावः ।। अथ तृतीयगाथाव्याख्या - जिणपूआ जिणथुणणं, गुरुथुइ साहम्मिआण वच्छल्लं । ववहारस्स य सुद्धी, रहजत्ता तित्थजत्ता य ।। [जिनपूजा जिनस्तवनं गुरुस्तुतिः साधर्मिकाणां वात्सल्यम् । व्यवहारस्य च शुद्धिः रथयात्रा तीर्थयात्रा च ।।]
[जिणपूआ]
[१९-जिनपूजा] जिनानां पूजा - जिनपूजा । सा च द्विधा द्रव्यतो भावतश्च । यदुक्तं श्रीआवश्यके
"x xxxदव्वथओ पुष्फाई संतगुणुक्कित्तणा भावे ।।" दव्वथओ भावथओ, दव्वथओ बहुगुणित्ति बुद्धि सिआ । अनिउणमइ-वयणमिणं छज्जीवहिअं जिणा बिंति ।।
१. 'गुरुथुअ' प्रबोधटीकायाम्, D.E,FK हस्त० । २. 'जिअं जिणा' हस्त० । 1. xxx द्रव्यस्तवः पुष्पादिः सद्गुणोत्कीर्तना भावे । 2. द्रव्यस्तवो भावस्तवो द्रव्यस्तवो बहुगुण इति बुद्धिः स्यात् ।
अनिपुणमतिवचनमिदं षड्जीवहितं जिना ब्रुवते ।।