SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ जयणा ।। अथ चन्द्रोदयकथा ।। श्रीपुरे श्रीषेण नृपः, तस्य पुत्रो देवराजोऽनेकगुणः, यौवने दैववशात्कुष्टी जातः । सप्तवर्षावधिविविधप्रतीकारैरप्यपटुः] वैद्यैस्त्यक्तः । यो | मत्पुत्रं नीरोगं करोति तस्यार्द्धराज्यं ददामीति राजा पटहमवादयत् । तत्र व्यवहारि यशोदत्तपुत्री लक्ष्मीवती शीलादिगुणमयी, तया पटहं निवार्य हस्तस्पर्शेन कुष्टः स्फेटितः । यतः - " यस्य स्मरणमात्रेण, सर्वाः संसारजा रुजः । शरीरिणो विशीर्यन्ते, सोऽयं शीलभिषग् नवः ।। " २३९ ततः [तयोः ] पाणिग्रहणम्, पुत्रं राज्ये निवेश्य दीक्षां ललौ राजा । तत्र चेकदा पाटलाचार्या ज्ञानिन ऐयुः । गुरुनमस्करणार्थं राजा गमनम्, देशनान्ते पृच्छा, कुतः सप्तवार्षिको व्याधिः समुत्पन्नः । गुरुः प्राह - प्राच्य कर्मतः । "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं, कृतं कर्म शुभाशुभम् ।।” तथाहि - वसन्तपुरे देवदत्तव्यवहारिणः चत्वारः पुत्राः धनदेवो धनदत्तो धनमित्रो धनेश्वरश्च मिथ्यात्विनः । इतश्च मृगपुरे जिनदत्तः श्रेष्ठी [जैनः ] । तत्पुत्री मृगसुन्दरी, तस्या अभिग्रहत्रयं - जिनं पूजयित्वा १, साधूनां दानं दत्त्वा भोक्ष्येऽहं २ रात्रिभोजनं न कुर्व्वे ३ । अन्यदा व्यवसायार्थं धनेश्वरो मृगपुरे ययौ । दृष्ट्वा मृगसुन्दरीं सानुरागोऽसौ जातः । तव मिथ्यात्विनो नैनां दत्ते श्रेष्ठी पितेति जिनभक्त्या ज्ञात्वा स कपट - श्रावकीभूय तां परिणीतवान्, स्वगृहे चानीता सा, धर्मेर्ष्यालुभिस्तस्या जिनपूजनादि निषिद्धम् । तस्या उपवासत्रयं जातम् । तया गुरवः पृष्टाः, पूजां दानं च कर्तुं नालभेऽहं किं कुर्व्वे, तैर्गुरुभिर्गुणागुणं विचार्य कथितम्- 'चुल्हकोपरि चन्द्रोदयं बध्नीयं तेन पञ्चसाधुदानेन पञ्चतीर्थे नमस्कृतैर्यादृशं फलं तादृशं [ फलं] जायते ।' ततस्तया स्वगृहमागत्य तथाकृतम्, ततश्च श्वशुरादिभिः किमपि कार्मणं कृतमनयेति विचार्य धनेश्वरस्य कथितम् । ततस्तेन चन्द्रोदयः प्रज्वालितः । तया पुनर्द्वितीयो बद्धः, सोऽपि प्रज्वालितः । एवं सप्त प्रज्वालिताः, ततः श्वशुरेणोक्तम्- 'भद्रे ! किं मण्डितमिति ।' तयोक्तम् - 'जीवदयार्थम्', पुनस्तेन सरोषमूचे 'एवं तर्हि पितृगृहे गच्छ ।' तयोक्तम् - 'सकुटुम्बेन त्वयाऽहं पितृगृहे मोच्या ।' श्वशुरेणोक्तम् - यथा मगृहान्निर्याति तथा करणीयम् ।' ततः सर्वेऽपि तया सार्धं चलिताः, क्वापि मार्गग्रामे श्वशुरपक्षीयैः प्राघूर्णकार्थं रात्रौ पाको विहितः । सा वधूर्बहुकथनेऽपि न भुङ्क्ते, अतः कोऽपि न भुक्तः । ततो यस्य गृहेऽन्नं जातं, तस्यैव कुटुम्बं भुक्तम् । तेन भुक्तेन सर्वे मृताः । प्रभाते यावद्विलोकयन्ते तावदन्नस्थाल्यां सर्पो दृष्टः । सर्वेश्चिन्तितं रात्रौ पच्यमाने धूमेन व्याकुलः सर्पोऽन्नस्थाल्यां पपातेति । तैः पश्चाद्वधूः क्षामिता, तयोक्तम्- ' अत एव चुल्हकोपरि चन्द्रोदयं दद्मि रात्रौ -
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy