________________
[जयणा
[१८-यतना] अथ यतना सम्यक्तया विधेया । यतना श्रीआगमोक्त-गुणदोषाश्रयत्यागरूपा, सा तु प्रतिपालयितुं सुकरैव । यतः -
"कालस्स य परिहाणी, संजमजोगाइं नत्थि खित्ताइ ।
जयणाए वट्टियव्वं, न हु जयणा भंजए अंगं ।।" [उपदेशमाला- २९३] ओघनिर्युक्तावपि साधूनाश्रित्य यतना यथा - "पडिलेहणं कुणन्तो, मिहो कहं कुणइ जणवयकहं वा ।
देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ।। पुढवी-आउक्काए, तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो, छण्हं पि विराहओ होइ ।। पुढवी-आउक्काए तेऊ-वाऊ-वणस्सइ-तसाणं ।
पडिलेहणा आउत्तो छण्हंपि आराहओ होइ ।।" [ओ.नि.-२७३, २७४, २७६] तथोपदेशमालायामपि -
“समिई-कसाय-गारव-इंदिय-मय-बंभचेरगुत्तीसु ।
सज्झाय-विणय-तव-सत्तिओ य जयणा सुविहियाणं ।।"[उपदेशमाला-२९४] श्राद्धानामपि यतना -
"वंदइ उभओ कालं पि, चेइयाई थयथुईपरमो ।
जिणवरपडिमाघरधूव-पुप्फगंधच्चणुज्जुत्तो ।। 1. कालस्य च परिहाणिः संयमयोग्यानि न सन्ति क्षेत्राणि । यतनया वर्तितव्यं न हु यतना भनक्त्यङ्गम् ।। 2. प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा।। 3. पृथ्व्यप्काययोस्तेजोवायुवनस्पति-त्रसानाम् । प्रतिलेखनायां प्रमत्तः षण्णामपि विराधको भवति ।। 4. पृथ्व्यप्काययोस्तेजोवायुवनस्पति-त्रसानाम् । प्रतिलेखनायामावृत्तः षण्णामप्याराधको भवति ।। 5. समिति-कषाय-गौरव-इन्द्रिय-मद-ब्रह्मचर्यगुप्तिषु । स्वाध्याय-विनय-तप-शक्तितश्च यतना सुविहितानाम्।। 6. वन्दते उभयकालमपि चैत्यानि स्तवस्तुतिपरमः । जिनवरप्रतिमागृहधूपपुष्पगन्धार्चनोद्युक्तः ।।