________________
परोवयारो -
mmmmmmmmmm २३५
सिद्धो रात्रावतिकाले एति, लेखकलेखलेखनपरवशत्वात् । श्वश्रूस्नुषे अतिनिर्विण्णे अतिजागरणात् । वध्वा श्वश्रूरुक्ता- 'मातः! पुत्रं तथा बोधय, यथा निशि सकाले एति।' मात्रा उक्तः स - 'वत्स ! निशि शीघ्रमेहि ।' 'यः कालज्ञः स सर्वज्ञः' । सिद्धः प्राह - 'मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतस्तदादेशं कथं न कुर्वे ।' तोष्णीक्येन स्थिता माता ।
अन्यदाऽऽलोचितं श्वश्रू-स्नुषाभ्याम्-'अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः ।' द्वितीयरात्रावतिचिराद् द्वारमागतः स कटकं खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम्'किमिति द्वारं नोद्घाटयेथे ?।' ताभ्यां मन्त्रितपूर्विणीभ्यामुक्तम्-'यत्रेदानी द्वाराणि उद्घाटितानि भवन्ति, तत्र व्रज ।' तच्छ्रुत्वा क्रुद्धश्चतुष्पथं गतः । तत्रोद्घाटे हट्टे उपविष्टान् सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान्दृष्टवान् । सान्द्रचन्द्रिक नभसि देशना । बोधः । व्रतम्। सर्वविद्यता । दिव्यं कवित्वम् । हंसपरमहंसवद् विशेषतर्काजिघृक्षुर्बोद्धान्तिकं जिगमिषुर्गुरुमवादीत-'प्रेषयत बौद्धपावें ।' गुरुभिर्गदितम्-'तत्र मा गाः । मन:परावर्तो भावी।' स ऊचे-'युगान्तेऽपि नैवं स्यात् ।' पुनर्गुरवः प्रोचुः- 'तत्र गतः परावर्त्यसे चेत् तदा अस्मद्दत्तं वेषमत्रागत्यास्मभ्यं ददीथाः ।' ऊररीचक्रे । स गतस्तत्र पठितुं लग्नः। सुघटितैस्तत्कुतर्कः परावर्तितं मनः । तद्दीक्षां ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरप्यागच्छन् जटितः । [तैरप्यागच्छन्नावर्जितः वादं कुर्वन्वादेन जितः । बौद्धाचार्यस्य बौद्धवेषं दातुं गतः । तेनापि बोधितः । पुनरागत उपश्रीहरिभद्रं श्वेताम्बरवेषं दातुम् । पुनर्वादेन जितः। एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१ कृताः । द्वाविंशवेलायां गुरुभिश्चिन्तितम् - माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूयात् । पुराऽपि २१ वा वादैर्जितोऽसौ । अधुना वादेनालम् । 'ललितविस्ताराख्या' चैत्यवन्दनावृत्तिः सतर्का कृता । तदागमे पुस्तिकां पादपीठे मुक्त्वा गुरवो बहिरगुः। तत्पुस्तिकापरामर्शाद्वोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह
नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये ।
मदर्थं निर्मिता येन वृत्तिर्ललितविस्तरा ।। ततो मिथ्यात्वनिविण्णेन सिद्धर्षिणा १६ सहस्रा 'उपमितिभवप्रपञ्चा'कथाऽरचि श्रीमाले सिद्धिमण्डपे । सा च सरस्वत्या साध्व्याऽशोधि । समये श्रीहरिभद्रसूरयोऽपि तेऽपि अनशनेन सुरलोकमवापन् । ।। इति श्रीहरिभद्रसूरि-सिद्धर्षिगणिचरित्रं संपूर्ण परोपकारे ।।
[इइ परोवयारो]
११. 'लेख्यक लेखेन' हस्त० ।