SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २३२~~ ।। अथोपकारे श्रीकृष्णसम्बन्धः ।। अन्या सौधर्मेन्द्रो निजसभायां प्राह - 'भो देवाः ! श्रीकृष्णः कस्याप्यवगुणं न जल्पति ।' तच्च श्रुत्वा कश्चित्सुरः परीक्षार्थमागत्य कृष्णस्य मार्गे गच्छत एकः श्वा मृतः श्यामो दुर्गंधो विकृतस्तेन, कृष्णोऽपि तं तथाविधं दृष्ट्वा सतानवगुणान्मुक्त्वा दन्तनैर्मल्यं प्रशंसितवान् । यथा - “दोषजालमपहाय मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपहाय गृह्णते वारिधेः सलिलमेव वारिदाः ।। " तद् दृष्ट्वा |स' देवस्तुष्टः सन् शक्रप्रशंसनवृत्तान्तकथनपूर्वकं ' हे महाभाग ! वरं वृणु' इति केशवमुवाच । कृष्णtsu | प्राह - 'भो देव ! यदि तुष्टोऽसि तदा तथा कुरु यथा सर्वजनानां रोगो न भवति । ' “उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ।। " " अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।।" 'मन्नह जिणाण आणं' स्वाध्यायः तथा श्रीहरिभद्रसूरिप्रबन्धः देवेन चन्दनभेरी समर्पिता प्रोक्तं चास्याः शब्देन षण्मासान् जने रोगा न भविष्यतीत्युक्त्वा सुरस्तिरोदधे । एवं नश्यति रोगे कालान्तरे भेरीपालकस्तान् लोलेन खण्डिकृतवान् पुनः रोगोपशमनाय धन्वन्तरि - वैतरिणीनाम्नो वैद्यं चकार । ।। इत्युपकारे श्रीकृष्णसम्बन्धः ।। "चूक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी य चक्की य ।।" [शार्ङ्गधरपद्धति- २३१] ।। परोपकारे श्रीहरिभद्रसूरिसम्बन्धः ।। श्रीचित्रकूटे हरिभद्रो विप्रश्चतुर्दशविद्याज्ञानज्ञः । विद्ययोदरं स्फुटतीति उदरे पट्टः, जालं, कुद्दालो निःश्रेणी [च, तैः ] सह चलति । यत्पठितमहं न जानामि तस्य शिष्यो भवामीति प्रतिज्ञा । एकदा चतुष्पथासन्नभूमिमव्रजत् । याकिनी नाम साध्वी, तया 16. चक्रवर्त्तिद्वयं हरिपञ्चकं पञ्चकं चक्रवर्त्तिनां केशवश्चक्रवर्ती । केशवश्चक्रवर्ती केशवो द्वौ चक्रवत्तिनौ केशवश्च चक्रवर्ती च ।। [आवश्यकनिर्युक्ति-४ -४२१] ६. [ xxx ] अयं पाठः श्रीगुणविजयकृत - श्री नेमिनाथचरित्रादुद्धृत्यात्र पूरितः । ७. 'कर्तुं' हस्त० । ८. 'दृश्यां पादुकाः, पञ्चमदूरीकृतदर्शनाऽन्यानि पञ्चमाघ इति कृत्वा, उदरे पट्टः ' वा 'स्वविद्यया तिरस्कृतपंचदर्शनानि वदति च जनेषु विद्ययोदरं स्फाटयति, अतो मयोदरे पट्टबन्धः क्रियते ।' वा एतादृशः पाठः मुद्रितप्रबन्धकोशे ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy