________________
२२८ .
...'मन्नह जिणाण आणं' स्वाध्यायः
"उप्पण्णमि अणंते नटुंमि य छाउमत्थिए नाणे ।
राईए संपत्तो महसेणवणंमि उज्जाणे ।।" [आवश्यकनियुक्ति-५३९] प्रथमसमवसृतौ देवमनुष्येषु कस्यापि सम्यक्त्वमात्रप्राप्तेरभावाद् श्रीअपापामहापुर्या परोपकारलाभमेवावधार्य प्राप्तः श्रीवीरः, तत्र च चतुश्चत्वारिंशच्छतद्विजप्रतिबोधोपकारः । देवकृतसमवसृतिरपि परोपकारकरणप्रवणोपदृश्यमानाऽस्ति। यतः- श्रीमरुदेवास्वामिन्याः, [श्रीगौतमः] अष्टापदे यात्रां कृत्वा पश्चाद्वलनसमये स्वहस्तदीक्षितत्र्यधिकपञ्चदशशततापसानां मध्ये एकाधिक[पञ्च]शततापसानां श्रीआदिजिन-श्रीवीरजिनसमवसरणदर्शनमात्र एव केवलोत्पत्तिः ।
श्रीमुनिसुव्रतस्वामिनो भृगुकच्छे केवलमुपकारमेव हृदि निधाय षष्टियोजनान्यतिक्रम्य समवसृताः ।
श्रीवीरेण स्वनिर्वाणसमये परोपकारार्थमेव षोडशप्रहरान् धर्मदेशनां कुर्वता पञ्चपञ्चाशदध्ययनानि पापफलविपाकानि पञ्चपञ्चाशदध्ययनानि पुण्यफलविपाकानि प्रकटीकृतानि, तत्रापि परोपकारमेव हृदि निधाय ।
यत्सर्वेभ्यस्तीर्थकरेभ्यः सर्वे गणधारिणत्रिपदीमधिगम्य द्वादशाङ्गीभङ्गी विदधते तत्रापि परोपकार एव मुख्यः । यतः श्रीआवश्यके -
"तवनियमनाणरुक्खं आरूढो केवली अमियनाणी । तो मुयइ नाणवुद्धिं भवियजणविबोहणट्ठाए ।। ते बुद्धिमएण पडेण गणहरा गिण्हिउं निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ।।
7. उत्पन्नेऽनन्ते नष्टे च छाद्यस्थिके ज्ञाने । रात्र्यां संप्राप्तो महसेनवनमुद्यानम् ।। 8. तपनियमज्ञानवृक्षमारूढः केवली अमितज्ञानी । ततो मुञ्चति ज्ञानवृष्टिं भव्यजनविबोधनार्थम् ।। 9. तां बुद्धिमयेन पटेन गणधरा ग्रहीतुं निरवशेषाम् । तीर्थंकरभाषितानि ग्रनन्ति ततः प्रवचनार्थम् ।।