________________
परोवयारो rommmmmmmmmmmmm
www.mrow.२२७
उत्कर्षतो दशपूर्वाणि भिन्नानि श्रुतपर्यायः सम्पूर्णदशपूर्वधरः पुनरमोघवचनतया प्रवचनप्रभावनया परोपकारादिद्वारेणैव बहुतरं निर्जरालाभमासादयति, अतो नासौ जिनकल्पं प्रतिपद्यते । कल्पवृत्तौ ।
सर्वेऽपि तीर्थंकरा उत्पन्नकेवलाः प्रतिदिनं देवनिर्मितसमवसृतौ सिंहासने उपविश्य प्रातः सन्ध्यां च प्रहरप्रमाणकालं यावदनिविण्णतया धर्मदेशनां तन्वते यत्तदुपकारमेव केवलं हृदि निधाय, नान्यथा । यतः -
"अरहंता भगवंतो, अहियं व हियं व न वि इहं किंचि । वारेंति कारविंति य, घित्तूण जणं बला हत्थे ।। उवएसं पुण तं दिति, जेण चरिएण कित्तिनिलयाणं । देवाण वि होंति पहू, किमंग पुण मणुयमित्ताणं ।। वरमउडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो । सक्को हिओवएसा, एरावणवाहणो जाओ ।। रैयणुज्जलाई जाइं, बत्तीसविमाणसयसहस्साइं । वज्जधरेण वराइं, हिओवएसेण लद्धाई ।। सुरवइसमं विभूइं, जं पत्तो भरहचक्कवट्टी वि ।
माणुसलोगस्स पहू, तं जाण हिओवएसेण ।।" [उपदेशमाला-४४७-४५१] यत् श्रीवीरजिनः समुत्पन्नकेवलज्ञानः रजन्यां महसेनवने समवसृतस्तत्रापि परोपकारबुद्धिरेव नापरं किमपि कारणं कृतकृत्यानां तेषाम् । यतः -
2. अर्हन्तो भगवन्तोऽहितं वा हितं वा नापीह किञ्चित् । वारयन्ति कारयन्ति च गृहीत्वा जनं बलाद् हस्ते ।। 3. उपदेशं पुनस्तं ददाति येन चरितेन कीर्तिनिलयानाम् । देवानामपि भवन्ति प्रभवः किमङ्ग ! पुनर्मनुजमात्राणाम्।। 4. वरमुकुटकिरिटधरो मण्डितश्चपलकुण्डलाभरणः । शक्रो हितोपदेशादैरावतवाहनो जातः ।। 5. रत्नोज्ज्वलानि यानि द्वात्रिंशद्विमानशतसहस्राणि । वज्रधरेण वराणि हितोपदेशेन लब्धानि ।। 6. सुरपतिसमां विभूतिं यां प्राप्तो भरतचक्रवर्त्यपि । मानुषलोकस्य प्रभुस्तां जानीहि हितोपदेशेन ।।