SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मुक्का नमस्कारप्रभावात् राजपुत्रो जातस्तथा अन्योऽपि महामन्त्रममुं स्मरन् कल्याणमश्नुते । अत्र पञ्चपरमेष्ठिमहिमा वर्णनीयः । अथान्येद्युर्वृषभध्वजो हयान् वाहयन् पूर्वाभिहितोद्याने गतः । तत्रेतश्चेतः सञ्चरन् वनप्रदेशं गतो यत्र स वृषभोऽभूत् पूर्वभवे, दृष्टपूर्वं प्रदेशो मयेतीहापोहेन कर्मणः क्षयोपशमेन जातिस्मरणम्, पूर्वभवस्वरूपं तावद् दृष्टम्, यावन्नमस्कारप्रभावात् राजकुमारः परं नमस्कारादाता न स्मृतः, तदनु तस्य परिज्ञानायानेकानुपायान् कुर्वन् पित्रादिवचसा तत्रोद्याने जिनप्रासादं कारितवान् । प्रासादेव मुमूर्षुवृषभ-नमस्कारदातृपुरुषादिचित्रं लेखितम् । तत्र स्वजना नियुक्ताः य एतच्चित्रं पृच्छति स ममाग्रे निवेदनीय इत्यादि ज्ञापयित्वा । एकदा पङ्कजमुखः श्रेष्ठिपुत्रोऽपि तत्रागतः । तच्चित्रं दृष्ट्वा पप्रच्छ केनेदमालेखितम् ? नियुक्तपुरुषैः सर्वोऽपि वृत्तान्तोऽकथि । अत्रान्तरे नियुक्तिाहूतो वृषभध्वजकुमारोऽपि तत्रागतः । परस्परं पूर्ववृतान्तं कथयतां महती प्रीतिस्तयोर्जाता । राज्यार्धमर्पितम्, प्रवर्धमानप्रणयौ धर्मरुचिपार्श्वेऽणुव्रतादिधर्मं प्राप्य क्रमेण द्वितीयदेवलोके देवौ । ततश्च्युत्वा धनदत्तजीवः प्रकृत्या शान्तः श्रीरामदेवः समजनि । वसुदत्तजीवो धीरोद्धतस्वभावो लक्ष्मणः । श्रीकान्तस्तु क्रूरचित्तः स्त्रीलोलो रावणः । वृषभध्वजजीवो नमस्कारदानतो रामदेवप्रियः सुग्रीवोऽभूत् । गुणवत्यपि कन्या वैरकारणं सीतेति सम्प्रदायः ।। 1 ।। इति नमस्कारफले कथा ।। किं बहुना 73 'आगासगामिणी विज्जा तहा अद्दिस्सकारिणी । बहुरूवदंसिणी सव्वविसवेगावहारिणी ।। 44 74 जम्मि अज्ज वि वट्टंते तहा वेआल - रक्खसा । साइणीडाइणीभूअ - जराएगंतराईआ ।। २२५ जलजलणरोगसिंहाण भया नस्संति तक्खा । जस्सप्पभावओ जम्हा तम्हा सेवह तं बुहा ।।" [ ] इत्येवं श्रीनमस्कारमहिमानमवगत्य प्रत्यहमेकाग्रचित्ततया त्रिकरणशुद्धया भावतः स् तनमेव । [इइ नमुक्कारो] 73. आकाशगामिनी विद्या, तथाऽदृश्यकारिणी । बहुरूपदर्शिनी सर्वविषवेगापहारिणी ।। 74. यस्मिन्नद्यापि वर्तन्ते तथा वेताल - राक्षसाः । शाकिनीडाकिनीभूत - जरा - एकान्तरात्रीका ।। 75. जलज्वलनरोगसिंहानां भया नश्यन्ति तत्क्षणाः । यस्य प्रभावतः यस्मात्तस्मात् सेवन्तु तं बुधाः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy