________________
नमुक्कारो
aa..२२३
69
इत्थ य पओअणमिणं कम्मखओ मंगलागमो चेव । इहलोअपारलोइअ दुविह फलं तत्थ दिटुंता ।। इहलोइ अत्थकामा आरुग्गं अभिरई अ निप्फत्ती ।
सिद्धी अ सग्ग सुकुलप्पच्चायाई अ परलोए ।।"[आवश्यकनियुक्ति-१०२२, १०२३] तथा व्यवहारभाष्येऽपि -
सव्वेसु खलियाइसु, ज्झाएज्जा पंचमंगलं ।
दो सिलोगो वि चिंतेज्जा, एगग्गो वावि तक्खणं ।। इह यदि बहिर्गमने कार्यान्तर-प्रारम्भे वा वस्त्रादेः स्खलनं भवति, आदिशब्दाच्छेष-अपशकुनदुर्निमित्तपरिग्रहः, तेषु सर्वेषु स्खलितादिषु समुपजातेषु विविक्षतप्रयोजनव्याघातसूचकेषु समुद्गतेष्वष्टोच्छ्वासप्रमाणं पञ्चमङ्गलं ध्यायेत्, तत्प्रतिघाताय । यदि यो वा तौ वा स्वाध्यायभूतौ द्वौ श्लोको ध्यायेत्, अथवा यावता कालेन द्वौ श्लोकौ चिन्त्येत् तत्क्षणं तावन्तं कालम् एकाग्रः सन् कायोत्सर्गस्थः शुभमना भूयात् ।
बिइअं पुण खलिआइसु उस्सासा हुति तह य सोलस य । तइअंमि अ बत्तीसं, चउत्थंमि न गच्छए अण्णं ।
द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे उच्छवासाः षोडश भवन्ति, षोडशोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः । तृतीये वारे तृतीयस्यां वेलायां स्खलितादिषु जातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः । चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितस्थानादन्यत् स्थानं न गच्छति । [उपलक्षणमेतत्] नाप्यन्यत् प्रयोजनं प्रारभते, अवश्यम्भाविविघ्नसम्भवात् ।। श्रीव्यवहारभाष्यगाथा [११७-११८] तद्वृत्तिश्च ।
69. अत्र च प्रयोजनमिदं कर्मक्षयो मङ्गलागमश्चैव । इहलौकिकपारलौकिकं द्विविधं फलं तत्र दृष्टान्ताः ।। 70. इहलोकेऽर्थकामावारोग्यमभिरतिश्च निष्पत्तिः । सिद्धिश्च स्वर्गः सुकुलप्रत्यायातिश्च परलोके ।। 71. सर्वेषु स्खलितादिषु ध्यायेत् पञ्चमङ्गलम् । द्वौ श्लोकावपि चिन्तयेत्, एकाग्रो वाऽपि तत्क्षणम् ।। 72. द्वितीयं पुनः स्खलितादिसु, उच्छ्वासा भवन्ति तथा च षोडशः । तृतीये तु द्वात्रिंशत् चतुर्थे न गच्छत्यन्यत् ।।