________________
२२०
44
सिद्धाण नमुक्कारो धन्नाण भवक्खयं कुणंताणं ।
हिअयं अणुम्मुतो विसुत्तियावारओ होइ ।।
45
सिद्धाण नमुक्कारो एवं खलु वणिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ।
46
सिद्धाण नमुक्कारो सव्वपावप्पणासणो ।
मंगलाणं च सव्वेसिं बिइअं हवइ मंगलं ।।
47
पंचविहं आयारं आयारमाणा तहा पभासंता । आयारं दंसंता आयरिया तेण वच्च॑ति ।।
48
आयारो नाणाई तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य ।
49
'मन्नह जिणाण आणं' स्वाध्यायः
आयरियनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभा ।।
50
आयारियनमुक्कारो धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुतो विसुत्तियावारओ होइ ।।
51
आयरियनमुक्कारो एवं खलु वणिओ महत् ि। जो मरणंम उवग्गे अभिक्खणं कीरए बहुसो ॥
44. सिद्धानां नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 45. सिद्धानां नमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।। 46. सिद्धानां नमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां द्वितीयं भवति मङ्गलम् ।। 47. पञ्चविधमाचारमाचरन्तस्तथा प्रभासमाणाः । आचारं दर्शयन्त आचार्यास्तेनोच्यन्ते ॥ 48. आचारो ज्ञानादिस्तस्याचरणात् प्रभाषणाद्वा । ये ते भावाचार्या भावाचारोपयुक्ताश्च ।। 49. आचार्यनमस्कारो जीवं मोचयति भवसहस्रेभ्यः । भावेन क्रियमाणो भवति पुनर्बोधिलाभाय ।। 50. आचार्यनमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुन्मुञ्चन् विस्रोतसिकावारको भवति ।। 51. आचार्यनमस्कार एवं खलु वर्णितो महार्थ इति । यो मरण उपाग्रेऽभिक्ष्णं क्रियते बहुशः ।।