________________
२१६
“यः करोति जनो लक्षजापमस्या नमस्कृतेः । विधिना तस्य जायन्ते, सम्पदश्च पदे पदे ।। "
राजन् ! विधिना लक्षजापे सर्वसम्पदः सर्वत्र जयश्रियश्च राजानं मन्त्रं पपाठ, ऋषिः प्राह 'हे राजन् ! पुरः प्रासादं यं पश्यसि, एतदपि पञ्चनमस्काराराधनफलं शृणुः ।
'मन्नह जिणाण आणं' स्वाध्यायः
सौधर्मदेवलोके हेमप्रभनामा देवः केवलीपार्श्वे पृच्छति - ' अहं क्वोत्पत्स्ये ? तत्र बोधिलाभो भावी न वे 'ति । ज्ञानी प्राह - 'वानरो भविष्यसि, धर्मप्राप्तिर्दुःखेन भवित्री ।' ततः सुरेण स्वप्रतिबोधायास्यामटव्यां प्रतिशिलं नमस्कारपदान्युत्कीर्णानि । च्युत्वा वानरो जातः । नमस्कारपदानि दृष्ट्वा जातजातिस्मृतिरनशनेन मृत्वा पुनस्तत्रैव देवो जातः । तेन श्रीशान्तिनाथ- प्रासादोऽयं कारितः । इति श्रुत्वा देवराजा तत्र प्रासादे विधिना लक्षनमस्कारजापं प्रारब्धवान् । क्षेत्रपालादयोऽप्युपसर्गान् कुर्व्वते । जापसमाप्तौ हेमप्रभदेवस्तुष्टः प्राह - 'राजत्रेतल्लक्षजापे ऐकाग्ग्रे, तीर्थकृत्त्वम्, मध्यमभावे विद्याधर - चक्रित्वम्, स्वल्पैकाग्ग्रे एकातपत्रम्, तवोपसर्गभवने स्वल्पैकाग्यं जातं तेन राजा भविष्यसीत्युक्त्वा काम्पील्यपुरे नीतः, स्थापित निजे राज्ये, नमस्कारप्रभावात्कामरूपदेशाधिपादयः सेवका जाताः । चिरमेकातपत्रं राज्यं कृतवान् । नमस्कारप्रभावादेव मृत्वा माहेन्द्रो देवो जातः । तृतीयभवे मुक्ति गमी ।
।। इति नमस्कारलक्षजापे श्रीदेवकथा ।।
श्री आवश्यक नमस्कारनिर्युक्तौ -
17
" मग्गे १ अतिप्पणासो २ आयारे ३ विणयया ४ सहायत्तं ५ ।
पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ।।
18
अडवी देसि अत्तं तहेव निज्जामया समुद्दमि । छक्कायरक्खणट्ठा महगोवा तेण वच्च॑ति ।।
19
अडविं सपच्चवायं वोलित्ता देसि ओवरसेणं । पावंति जहिट्ठपुरं भवाडविंपि तहा जीवा ।।
17. मार्गोऽविप्रणाश आचारो विनयता सहायत्वम् । पञ्चविधनमस्कारं करोमि एभिर्हेतुभिः ।। 18. अटव्यां देशकत्वं तथैव निर्यामकाः समुद्रे । षट्कायरक्षणार्थं महागोपास्तेनोच्यन्ते ॥ 19. अटवीं सप्रत्यपायामुल्लंघ्य देशिकोपदेशेन । प्राप्नुवन्ति यथेष्टपुरं भवाटवीमपि तथा जीवाः ।।