________________
२१४ mmmam
~~~~'मन्नह जिणाण आणं' स्वाध्यायः
परमेष्ठि-आराधनार्थं लोगस्स-कायोत्सर्ग कृत्वा पञ्चपरमेष्ठिनां पञ्चप्रतिमां मण्डयित्वा वासकर्पूरादिना पूजा क्रियते । ततो नमस्कारो जप्यते । तज्जापे पञ्चपरमेष्ठिनः पञ्चवर्णा ध्यायन्ते । जापे प्रति नमस्कार देवस्य तिलकम्, पुष्पचटापनम्, वासक्षेपः, धूपोद्गहनम्, दीपकरणम्, चौक्षढौकनम्, जयतीति करणम्, सहस्रे पूर्णे जाते पूगढीकनम्, सम्पत्तौ लाङ्गलिफलदानं देववन्दनं च । सन्ध्यायां गुणनमोचने पञ्चशक्रस्तवैर्देवा वन्द्यन्ते । पञ्चपरमेष्ठि-आराधनार्थं चतुर्विंशतिलोगस्सकायोत्सर्गः, मोचने ‘अविधिआशातना हुई हुइ ते मनवचनकायकरी मिच्छामि दुक्कडमिति वाच्यम् । यथाशक्तिनिर्विकृत्याचाम्लादितपः कार्यः, स्त्रियः संघट्टोऽपि त्याज्यः, स्त्रिया पुरुषस्य इति । इति नमस्कारलक्षजापविधिः । अत्र दृष्टान्तश्च ।
॥नमस्कारलक्षजापे श्रीदेवकथा ।। मणवंछिअरिद्धीओ इहपरलोए वि लहइ सुक्खाई ।
जस्स मणे नवकारो सिरिदेवो इत्थुदाहरणं ।। काम्पील्यपुरे श्रीहर्षो राजा, श्रीदेवः पुत्रः, अन्यदा दिग्विजयाय प्राप्तः, अनेकदेशाधिपान् जित्वा गतः कामरूपदेशम् । ततः कामरूपदेशाधिपेन सह घोरसमरमारभत । श्रीहर्षश्चिन्तयति - 'किमेभिर्वराकैविनाशितैः?' इति विचिन्त्य कामरूपदेशाधिपेन सह द्वंद्वयुद्धं चक्रे, परं नैकस्य जयः पराजयो वा । ततः सङ्ग्रामावलोकनदेवैर्वारितौ द्वावपि सङ्ग्रामात् । अनाप्तजयौ गतौ स्वस्थाने, श्रीहर्षः सम्प्राप्तवैराग्यः श्रीदेवं पुत्रं राज्ये निवेश्य शिक्षयति ।
अट्ठ न कीरन्ति सया, अट्ठ य कीरन्ति अट्ठ मुच्चन्ति । अट्ठ धरिज्जन्ति मणे न वीससे अट्ठमट्ठण्हं ।।१।। खलसंगो १ कुकलत्तं २ कोहो ३ वसणं ४ मओ अ ५ कुधणं च ६ । कुग्गाहो ७ मुक्खत्तं ८ अट्ठ न कीरन्ति एआइं ।।२।।
7. मनोवाञ्छितर्द्धय इहपरलोकेऽपि लभन्ते सौख्यानि । यस्य मनसि नमस्कारः श्रीदेवोऽत्रोदाहरणम् ।। 8. अष्टा न क्रियन्ते सदा, अष्टा च क्रियन्तेऽष्टा मुच्यन्ते । अष्टा धार्यन्ते मनसि न विश्वसेताष्टमष्टानाम् ।। 9. खलसङ्गः कुकलत्रं क्रोधो व्यसनं मदश्च कुधनं च । कुग्राहो मुर्खत्वमष्टानि न क्रियन्ते एतानि ।।