________________
२१२NNA
कृतः । तेन क्रुधेन विषादिप्रयोगतो मारितः । शुभभावतोऽहं व्यन्तरो जातः । लघुबन्धुरपि ज्येष्ठभ्रात्रा राजकुले समर्पितः, गुप्तौ क्षिप्तो मृतः । विभङ्गज्ञानेन ज्येष्ठविलसितं ज्ञातम्, सकुटुम्बोऽपि मारितः । अन्योऽपि योऽत्र वसति तं मारयामि निश्चितम्, साम्प्रतं त्वं धर्मगुरुः सञ्जातः, दत्तमिदं गृहं तव इदं मन्निधानं गृहाण । आनीयाग्रे मुक्तं विलोकितं दश दश लक्षद्रव्यस्य । सेनो ब्रूते, 'हे बान्धव ! मम परिग्रहपरिमाणव्रते एकलक्षं मुक्तफलमस्ति । शेषा नव मम कार्ये नायान्तीति नादास्ये । व्यन्तरः [ प्राह- पुण्यव्ययं कुर्या: । सेनः [प्राह-] परद्रव्यव्ययेन यत्पुण्यं तन्नाहं वाञ्छामि । व्यन्तरः [ प्राह- ] 'मत्सत्कमेव व्ययीकुरु पुण्यांशस्तव मम च भावी, अद्य वैरं त्यक्तं जीवदया प्रतिपन्नेति न तवाऽनृणी भवामि कदापि धर्मगुरुत्वात् । यतः -
,
16
“सम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुसु । सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ।।”
'मन्नह जिणाण आणं' स्वाध्यायः
~~~~~~~~~
“सहस्रलक्षसंख्यातैर्विशुद्धैः श्रावकैरिह । यद्भोजितैर्भवेत्पुण्यं मुनिदानात्ततोऽधिकम्।।”
[उपदेशमाला-२६९]
प्रभाते भार्यापि विलोकयन्ती तत्रागता, सेनं तथाद्धिमहर्ध्याभरणविभूषितं दृष्ट्वा पृष्टवती, 'प्रियतम ! कुत इयं ऋद्धिः ? ' सेन: - 'धर्मादेव ।' एतज्ज्ञात्वा मित्रपुत्रादयो मिलिताः । सर्वेषां धर्मे स्थैर्यमजनि । एकदा प्रतिबोधकमुनेरुपदेशमेवमशृणोत् ।
"शत्रुञ्जयसमं तीर्थं पात्रं चारित्रिणः समं । जीवरक्षासमो धर्मो, नास्ति विश्वत्रयेऽपरः ।। "
तदनु त्रिर्जिनार्चा- द्विरावश्यक-साधर्मिकवात्सल्यादिपुण्यपरायणैः व्यन्तरसत्कनवलक्ष्याः प्रासादं कारयामास । कलशारोपणसमये व्यन्तरेण रजन्यां राज्ञः श्रीगृहात् सौवर्णकलशशतमानीय समर्पितम्, राज्ञो भयं च नैव कार्यम्, प्रातः सेनो नृपनामाङ्कितान् कलशान् प्रेक्ष्य गतो राजभवने, कथितो व्यन्तरव्यतिकरः, राजा कलशानानाय्य निजनामांकांश्च दृष्ट्वा पप्रच्छ - 'एते क्व स्थापयिष्यन्ते ?' सेनेनोक्तम्- 'नव्यकारितम् प्रासादे,' राजा हृष्टो 'यथेच्छया स्थापयेत्याह ।' सेनोऽपि प्रासादकृत्यं समाप्य तीर्थयात्राऽष्टाह्निकादिपरः परिग्रहपरिमाणव्रतं निरतिचारं प्रतिपालयन् क्रमेण तत्रैव भवे प्रव्रज्यां प्रतिपाल्य केवलज्ञानं प्राप्य मोक्षसौख्यं प्राप्तवान् ।
।। इति स्वाध्याये सेनश्राद्धसम्बन्धः ।।
[इइ सज्झाय]
16. सम्यक्त्वदायकानां दुष्प्रतिकारं भवेषु बहुषु । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटिभिः ।।